Book Title: Paniniya Ashtadhyayi Pravachanam Part 04
Author(s): Sudarshanacharya
Publisher: Bramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
View full book text
________________
पञ्चमाध्यायस्य द्वितीय पादः
२०५ से
यहां साधन और क्रियावाची 'उत्' शब्द से उन्मना अर्थ अभिधेय में इस सूत्र 'कन्' प्रत्यय है। यहां 'उत्' शब्द से सम्बद्ध 'मन' शब्द साधनवाची और 'गत' शब्द क्रियावाची है ।
भवजनितार्थप्रत्ययविधिः
कन्
(१) कालप्रयोजनाद् रोगे । ८१ ।
प०वि० - काल-प्रयोजनात् ५ ।१ रोगे ७ । १ ।
स०- कालश्च प्रयोजनं च एतयोः समाहारः कालप्रयोजनम्, तस्मात्कालप्रयोजनात् (समाहारद्वन्द्वः ) ।
अनु०-कन् इत्यनुवर्तते। अत्रार्थलभ्या सप्तमी तृतीया च समर्थ - विभक्तिर्गृह्यते ।
अन्वयः-सप्तमीतृतीयासमर्थाभ्यां कालप्रयोजनाभ्यां भवे जनिते च
कन् रोगे ।
अर्थ:-सप्तमीसमर्थात् तृतीयासमर्थाच्च यथासंख्यं कालवाचिनः प्रयोजनवाचिनश्च प्रातिपदिकाद् यथासंख्यं भवे जनिते चार्थे कन् प्रत्ययो भवति, रोगेऽभिधेये । कालः = दिवसादिः । प्रयोजनम् = कारणं रोगस्य फलं च ।
उदा०-(कालः) द्वितीयेऽहनि भवः - द्वितीयको ज्वरः । चतुर्थेऽहनि भव:-चतुर्थको ज्वरः । (प्रयोजनम्) विषपुष्पैर्जनितः - विषपुष्पको ज्वरः । काशपुष्पैर्जनितः-काशपुष्पको ज्वरः । उष्णं कार्यमस्य - उष्णको ज्वरः । शीतं कार्यमस्य - शीतको ज्वरः ।
आर्यभाषा: अर्थ- (सप्तमी विभक्ति और तृतीया विभक्ति समर्थ) (कालप्रयोजनात्) यथासंख्य कालवाची और प्रयोजनवाची प्रातिपदिक से यथासंख्य {भव और जनित} अर्थ में (कन्) कन् प्रत्यय होता है (रोगे ) यदि वहां रोग अर्थ अभिधेय हो । प्रयोजन-कारण और रोग का फल ।
उदा०
- (काल) द्वितीय दिन होनेवाला-द्वितीयक ज्वर । चतुर्थ दिन होनेवाला - चतुर्थक ज्वर । (प्रयोजन) विषपुष्पों से जनित - विषपुष्पक ज्वर । काशपुष्पों (कांस के फूल) से उत्पन्न-काशपुष्पक ज्वर । उष्ण है कार्य इसका - उष्णक ज्वर। गर्मी का बुखार । शीत है कार्य इसका - शीतक ज्वर । जाड़े का बुखार |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org