Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 16
________________ सर्गः] विनयदेवसूरि-माहात्म्यम् तृतीयः सर्गः अथ वासकुमारः सन् कुर्वन गुरुपरीक्षणम् । लब्धवान् सद्गुरुं तं च बुद्धवान् गौतमाधिकम् ॥१॥ तद्यथा-अथाभूत्स पुरा वीरश्चतुर्विंशो जिनेश्वरः। शासने यस्य भूयांसो गच्छाः सन्त्युदितश्रियः ॥२॥ तेषु गच्छस्तपानाम प्रसिद्धोऽस्ति प्रसिद्धिमान् । विधानात्तपसः शश्वहुस्तपस्यविशेषतः ॥३॥ तत्र वीरजिनाधीशपट्टानुक्रमसंश्रितः । षट्पञ्चाशपदं सरिरानन्दविमलोऽश्रयत् ॥४॥ आचारं शिथिलं त्यक्त्वा व्यधादाचारमुत्कटम् । श्राद्धलोकांच्युतान्धर्मादादधार च यः क्षणात्॥ महेभ्यानां महेभ्यानां पुत्राणां च शतानि च । त्याजयित्वा कुटुम्बादि मोहं दीक्षयसिस्म च ॥ आनन्दविमलसूरेः सप्तपञ्चाश[त]त्पदे । विजयदानसूरीन्द्रः सोभाद् भानुरिवोदये ॥ ७ ॥ श्रीस्तम्भतीर्थ-पत्तन-श्रीराजनगरादिषु । जिनबिम्बशताब्जानि प्रतिष्ठां योऽनयत् क्षणैः ॥८॥ ४-६-सन्ततपागच्छे स आनन्दविमलसूरिः षट्पञ्चाशपदं षट्पञ्चाशतः पूरणं षट्पश्चाशं तञ्च तत्पदं च स्थानं षट्पञ्चाशपदं ५६ तत् अश्रयत् असेवत । कथंभूतः आनन्दविमलमूरिः? वीरजिनाधीशपट्टानुक्रमसंश्रित : वीरजिनार्धाशात्पट्टानां योऽनुक्रमस्तं संश्रितो यः स तथा; द्वितीयाश्रितातीतेति द्वितीया तत्पुरुषः । स कः य आनन्दविमलसूरिः शिथिलं आचारं त्यक्त्वा उत्कटं आचारं सिद्धान्तप्रणीतगौतमादिगणधरस्थूलभद्रादिसाधुयथाविधिविहिततपःक्रियादिसमाचरणं व्यधात् । चः पुनः धर्माच् च्युतान् श्राद्धलोकान् क्षणात् आदधार उद्धृतवान् । तथा चात्र वार्तालेश:-श्रीआनन्दविमलसूरिः क्रियाशिथिलबहुलसाधुलोकपरिवृतोऽपि संवेगरङ्गतरङ्गनिश्चलभावितचेताः श्रीविक्रमनृपाद् व्यशीत्यधिक पञ्चदशशत १५८२ वर्षे कतिचित्साधुपरिवृतः श्रीमदहत्प्रतिमाप्रतिषेध १ साधुजननिषेध २ प्रमुखोत्सूत्रप्ररूपणरूपसमुद्रे ब्रुडतोऽनेकलोकान् विलोक्य करुणारसरसिकमानसः श्रीहेमविमलसूरिगुरुप्रवराज्ञया शिथिलाचारपरिहरणलक्षणक्रियोद्धरणप्रवहणेन तान् तत्कालात्समुद्धृतवान् । तथा महेभ्यानां महेभ्यपुत्राणां चानेकानि शतानि प्रतिबोध्य कुटुम्बधनधान्यादि मोहं प्रतिषेध्य च प्राब्राजितवान् इति श्लोकद्वयार्थः । एवं चास्यानेके अवदाताः सन्ति तांश्चात्र प्रन्थविस्तरभिया नाकथयाम नचालिखाम। ७-८-उदये उदयाचले णीगप्रापणे अस्य द्विकर्मत्वात्। जिनबिम्बशताब्जानि प्रतिष्ठामित्युभयत्र कर्म । क्षणैरुत्सवैः। श्रीराजनगरादिषु इत्यत्र आदिशब्दात् महीशानक-गन्धारवन्दिरादिग्राह्यम् ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140