Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 45
________________ श्रीवल्लभोपाध्यायविरचित [सप्तमः निरवर्ततसत्कान्त एवं मूरिदासकः । न्यवर्तत च सर्वषां सन्ततिर्दुरितांहसाम् ॥११॥ ततः सर्वत्र सर्वत्र पावर्तत जयारवः । श्रीसूरेः श्रावकेशस्य श्रीमल्लस्य च निर्मलः ॥१२॥ श्रीमत्पत्तनसढ्ने निरमाद् वन्दनोत्सवम् । सहस्रवीर आनन्दाद्यस्य द्रव्यव्ययाद् घनात्॥९॥ षोडशस्य शतस्यास्मिन् अष्टपश्चाशवत्सरे । षष्ठयां पौषस्य कृष्णायां गुरुवारे शुभावहे ॥९॥ ततः शंखेश्वरं पार्थजिनं नन्तुं च जग्मतुः । गुरुशिष्यावलक्ष्येतां सल्लाकैविनयात्तदा ॥१५॥ मरुदेशनिवास्यत्र हेमराजश्च सङ्घपः । शत्रुअये जिनानन्तुं गच्छंस्तावभ्यवन्दत ॥ ९६ ॥ समस्तमरुदेशादिदेशवासिजनान्वितः । स्वभुजोपार्जितद्रव्यव्यय कुर्वननेकधा ॥९॥ बहवोत्राभवन् भव्याऽवदाताश्चोत्सवा नवाः । निर्मिताः श्रावकैवक्तुं तानलं नाऽलसो यतः॥ इत्थं वासकुमार एष उदयी प्राकपुण्यपुण्यार्जनात् , श्रीमत्सूरिपदं क्रमादलभत प्राप्तिकसाम्राज्यकम् । श्रीश्रीवल्लभपाठकेन पठितं लभ्यं न पुण्यं विना, श्रुत्वेति प्रवणा भवन्तु भविका धर्मे मनःशुद्धितः ॥१९॥ इति श्री श्रीवल्लभोपाध्याय विरचिते श्रीमद्विजयदेवमाहात्म्यनाम्नि महाकाव्ये श्रीविजयदेवसूरि सूरिपदप्रदानवर्णनो नाम सप्तमः सर्गः ॥७॥ न्धुपुरश्रीमदहम्मदावादादिनगरनिवासिनः श्रावकाः । अनाहूतानिति विशेषणेन च श्रीस्तंभतीर्थ निवासिनः श्रावका इत्यर्थोऽवसेयः । ९२-सर्वान् त्रायते इति सर्वत्रः सर्वरक्षकः। सूरिपदोत्सवे बन्दिलोकाः कारातः छोटिताः। चटकादयो जन्तवोऽपि पखरादितः छोटिता इति सर्वत्र इतीदं विशेषणं पुष्टम् । ९३-सहस्रवीर: पारिक्खगोत्रः। ९५-पश्चिमार्धव्याख्या । तदा तस्मिन्काले श्रीविजयसेनसूरि श्रीविजयदेवसूर्योः श्रीशद्धेश्वरपार्श्वजिननमस्करणहेत श्रीशजेश्वरनगरप्राप्तिसमये सल्लोकैः पण्डितलोकैर्विनयात् किंचिदुचावचभद्रासनोपवेशनात् गुरुशिष्यौ श्रीविजयसेनहरिगुरुः श्रीविजयदेवसरिःशिष्यः अलक्ष्येतामज्ञायेतामित्यर्थः। ९८-अत्र श्रीशद्धेश्वरनगरे मरुदेशनिवासी पिंपाडियामवास्तव्यः साहश्रीताल्हासुतो हेमराजसंघपतिस्तो श्रीविजयसेनसूरिश्रविजयदेवेसूरिकर्मतापनी अभ्यवन्दत । शेषं सुगमम् ।

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140