Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 89
________________ एकादशः सर्गः अथ सागरपक्षीयः सान्तीदासो महद्धिकः । श्रावकः श्रावकाधीशो नरेश इव शोभते ॥१॥ श्रीमत्यहम्मदावादे वदावदवशंवदः । श्रीमत्सागरपक्षीयमूरिधर्मपरायणः ॥ २॥ युग्मम् । एकदा व्यमृशच्चित्ते स्वीयगुर्वोः परस्परम् । कथं विवाद एकत्ये द्वित्वं चापि कथं पृथक् ॥३॥ प्रभाते गुरुमापृच्छय परस्परमरूपणाम् (-धर्म द्वयप्ररूपणाम् -इति वा पाठः) निर्णयानि हि साक्षित्वमङ्गीकृत्य तदा वरम् ॥४॥ युग्मम् । गुरोः पार्थ समागत्य श्रीगुरुं स न्यवेदयत् । मदुक्तं वचनं सत्यं कुरु चेदरमिच्छसि ॥५॥ विजयदेवसूरीन्द्रं श्रीमन्मेदतटात् पुरात् । आह्वयाऽन्याऽदरं कृत्वा मुक्त्वात्मीयजनानपि ॥६॥ यदि त्वं पूर्वशास्त्राणामनुसारनिरूपिताम् । कुर्याः प्ररूपणां सारां नान्यथा द्वेषपोषिकाम् ||७|| सूरे सर्वजनीना यज्जिनधर्मप्ररूपणा । क्यापि पारंपरीणा च भवेत्सर्वपथीनिका ॥८॥ ततस्तस्य गुरुः पाह-ब्रूषे श्रावक सुन्दरम् । तमाह्वय, स आयातादायान्यहमितो ध्रुवम् ॥९॥ सान्तीदासस्तदोत्थाय साधर्मिकानकारयत् । तानापृच्छय च तानेव तमाहातुमचालयत् ॥१०॥ विजयदेवसूरीन्द्रश्रावकैरपि संयुतान् । परस्परमुभौ ते हि यद्विरोधनिषेधकाः ॥११॥ युग्मम् । प्रचलन्तस्त आगच्छन् पुरे श्रीमेदिनीतटे । विजयदेवसूरीश्च प्राणमन् प्रेमपूरिताः ॥१२॥ ताभ्यामुत्तामवोचं च वाचं वाचंयमेशितुः । पुरतः प्रीतिकर्ती ते पत्राणि च ददुः करैः ॥१३॥ श्रुत्वा सूरीश्वरो वार्ती तत्पत्राणि प्रवाच्य च । हृद्यमोदत निर्द्वन्द्वो जयो द्वन्द्वक्षयस्सताम् ॥१४॥ (अथवा-हृद्यमोदत निषो जयो द्वेषक्षयः सताम् -इति पाठः) ८-सर्वजनीना सर्वजनेषु प्रसिद्धा । पारम्परीणा परम्परया प्राप्ता । सर्वपीनिका सर्वपथीना एव सर्वपीनिका सर्वपथिषु अव्याहता सर्वजिनधर्ममार्गेषु अव्याहता इत्यर्थः । सर्वजनीना सर्वपीना-इत्युभयत्र प्रसिद्धाव्याहतयोर्जनपथोर्णित्वं वा वक्तव्यं इति वार्तिकात् खप्रत्ययः । पारम्परीणा इत्यत्र युगपरम्पराह्नां भवनं प्राप्तसमूठे ख इति खः । ९-आयातात् इति या प्रापणे लोट: तातङ्डादेशे रूप । आयानीति इण गतौ आजपूर्वः इत्यस्य लोटः उत्तम पुरुषस्य मेनिरिति मेर्नि इत्यादेशे आडुत्तमस्य पिञ्चेति आडागमे रूपम् । ११-उभौ इत्यत्र श्रीविजयदेवसूरिश्रावकसमुदायापेक्षया सागरपक्षीयश्रावकसमुदायापेक्षया च द्विवचनम् । १३-ताभ्यां सागरपनीयसूरि कथितां सान्तीदासकथितां च वाचं वचनं । वाचंयमेशितुः श्रीविजयदेवसूरिगुरोः पुरतोऽप्रे।

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140