Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
श्रीवल्लभोपाध्यायविरचितं
[द्वादशः विहरनन्यदा सूरिरायान् स्वर्णगिरं प्रति । मार्गान्तरालवर्तित्वादायाच्छ्रीपल्लिकापुरीम् ॥ जीर्णोद्धारे महत्पुण्यमिति मूरिरुपादिशत् । श्रावकान सुकृतं श्रोतॄन् सत्सदः सत्सदः सदः ॥ इत्युपादिश्य सूरीन्द्रस्ततः प्रास्थत हर्पतः । एकत्रावस्थितियुक्ता यतीनां न कदापि यत् ॥१४॥ अथैकत्रोपविष्टौ तौ ध्यायतः स्मैकदा ह्यदः । डूंगरभाखरेत्याख्या सर्वांद्रीणां श्रुता भुवि ॥ अतो विशेषभाषायां प्रवर्तत तदा वरम । डूंगरभाखरेत्याख्या जगदेकमरूपिका ॥१६॥ कर्तव्यात्सर्वलोकानां सर्वलोकैः कृतादपि । धर्मात् साद्भुतधर्म चेत् करवाव तदा भवेत् ॥१७॥ श्रीमेरुगिरिनामानावावां ख्यातौ सहोदरौ । कारयाव मरौ मेरुं चैत्यं ज्ञापयितुं जनान् ॥१८॥ उदधारयतां तौ हि विचिन्त्येति स्वचेतसि । नवलक्षाभिधं चैत्यं जीर्ण तन्वा न तेजसा ॥१९॥ नवलक्षाणि रूप्याणि लगन्त्यस्य विधापने । नवलक्षमतो नाम चैत्यास्यास्य भुवि श्रुतम् ॥२०॥ प्रतिमा पार्श्वनाथस्य कारितेहितपूरिका । ताभ्यां कामलतेवेषा सत्फणा नवपल्लवा ॥२१॥ रचितं स्वर्णरत्नौधैर्यशःस्तम्भमिवोन्नतम् । तौ न्यवेशयतां दण्डं चैत्ये ध्वजविराजितम् ॥२२॥ सुवर्णकलशं चैत्यशङ्गस्योपरि सुन्दरम् । प्रत्यष्टापयतां ती तत् तदा मेरुरिव व्यभात् ॥२३॥ मेरुसुमेरुरित्याख्यां विभ्राणे ते व्यराजताम् । आकारे पञ्चमेरूणामबुध्येतां च सज्जनैः ॥२४॥ नवपल्लवनामायं पार्श्वनाथः प्रभाववान् । अभवद्भवर्दश्वर्यप्रथितः पृथिवीतले ॥२५॥ निष्पन्ने पाचचत्येऽपि पार्श्वचत्येप्यथाद्भुते । प्रतिष्ठां न विना पूजा सत्यभावेपि तद्वये ॥२६॥ अतोऽथ कारयावावां प्रतिष्ठां श्रेष्ठनिष्टया । श्रीमूरीश्वरमकार्य श्रीवींझेवापुरस्थितम् ॥२७॥
१२-आयान्-या प्रापणे, आङ् पूर्वः शतृप्रत्ययान्तः आगच्छन् इत्यर्थः प्रथमः। द्वितीयस्तु आयादिति अनद्यतने लङ् इति लङः प्रथम पुरुषकवचनप्रयोगः आगच्छदित्यर्थः ।
१३-सुकृतं श्रोतृन्-न लोकाव्ययनिष्ठाखलर्थतनामेति श्रोतृन् इत्यस्य तन्निति शीलार्थतन् प्रत्ययान्तत्वप्रयोगात् । सुकृतमिति हितीया । सत्सदः पदलविशरणगत्यवसादनेषु भ्वादौ, ज्वलादिः परस्मैपदी । सत्सु साधुलोकेपु सीदन्तीति सत्सदः साधुलोकसेवकास्तान् । सतां पण्डितानां पूजितानां वा राजादीनां सदांसि सभाः तेषु सीदन्तीति सत्सदः पण्डितसभोपवेशकाः राजसभोपवेशका वा इत्यर्थः । सत्सद इत्यत्र सत्सदस्सद इत्यत्र च सत्सू द्विषद्रुहंति क्विप् सदः शब्दः स्त्रीलिबलिङ्गः।
१९-तन्वा शरीरेण, अत्र तनू शब्द ऊडं-तः । तन्वादेर्वेति वैकल्पिकस्य ऊङः प्राप्तेः। २२-तौ डुंगरभापरौ भ्रातरौ तत् नवलक्षं नाम चैत्यं ।
२४-ते श्रीपल्ल्या मध्यास्थित बहि:स्थितचैत्ययोर्द्वयं व्यराजतां । चः पुनः सजनैः पञ्चमेरूणामाकारे अबुध्येताम् ।
२७-श्रेष्ठनिष्ठया अत्र निष्टाशब्दः उत्कर्ष १ व्यवस्था २ निष्पत्ति ३ निर्वाह ४ व्रतानां पञ्चानामेषां पर्यायः । निष्ठोत्कर्पव्यवस्थयोः कुशे निष्पत्तौ नाशेऽन्ते निर्वाहे याचने व्रते इति हैमः।

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140