Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
सप्तदशः सर्गः
अथात्रावसरे श्रीमन्मण्डपं सर्वसम्पदाम् । पत्तनं मण्डपं नाम बाभात्युत्सवमण्डपम् ॥२॥ पातिसाहि-जहांगीर-सिलेमसाहिरुत्तमः । हिन्दू-तुरुष्कभूपालनायकस्तत्र शोभते ॥२॥ पातिसाहिसभासीना विद्वांसोऽन्ये जना अपि । दर्शनानां शुभां षण्णां धर्मवार्ता जगुमिथः॥३ तद्यथा-दर्शनेष्वेषु सर्वेषु जैन दर्शनमुत्तमम् । दानं तपः क्रियाकूरा शीलं श्रेयश्च यत्र यत् ॥४॥ तत्रापि साम्पतं भाति विजयदेवसद्गुरुः । कुर्वन्नुग्रं तपश्चोग्रां क्रियावत्पुङ्गवः क्रियाम् ॥५॥ उग्रत्वं तपसः श्रुत्वा क्रियायाश्च यतिव्रजे । पातिसाहिर्जहांगीरोऽन्यदेति प्रत्यपादयत् ।।६।। इतीति किं तदाह-भो चन्दूः संघप ! कासि धर्माचार्यस्तवाधुना।
विजयदेवसूरीन्द्रो नाऽमिलत्स कथं च नः ॥७॥ तदा चन्दरिति माह पातिसाहिं कृताञ्जलिः । अस्ति सम्पति मूरीन्द्रः स्थम्भतीर्थे गुरुर्मम ॥८॥ पातिसाहिरिति श्रुत्वा प्राह चन्दं प्रतीति च । विजयदेवसूरीन्द्रं समाय ममाज्ञया ॥९॥ फुरमाणं तदालेख्य सूरेराह्वानसूचकम् । चन्दसंघपते हस्ते पातिसाहिरदान्मुदा ॥१०॥ अवदद्वदनाचेत्यं मदीयमहदीं वरम् । मुश्च सूरीश्वराहानहेतवे मुखहेतवे ॥११॥ युग्मम् ॥ ततश्चन्दुः समाहूय तदा सदहदीं द्रुतम् । स्फुरन्मानं स्वहस्तेन तद्धस्ते च समापयत् ॥१२॥ अचालीदहदी: शीघ्रं ततः सन्तुष्टमानसः। स्थम्भतीर्थपुरं पामोत् समामोत् स्वेहितानि च। प्रणम्य शिरसा सूरिं स्फुरन्मानं समापयत् । वाचं वाचं गुरुः सह श्रावं श्रावं त्वमोदत॥१४॥ भीतिदानं तदा प्रादाजीविताहमनेकधा । संघः श्रीस्थम्भतीर्थस्य तुष्टः किं किं ददाति न॥१५ विहारो नोचितः साधोश्चतुर्मासे कदापि हि । तथापि कारणे कार्य उक्तिरस्त्याईतीति च ॥
(-जैनीत्युक्तिश्च वर्तते-इति वा पाठः)॥१६॥ शास्त्रार्थमवधायेति निवेद्य च महाजनान् । महालाभं च विज्ञाय श्चीसरिरचलत्ततः ॥१७॥ अर्जयमध्वनि श्रेयः प्रापर्यश्वापरान् जनान् । व्यापारीव सुवस्त्वोघलाभ ग्रामादिकं प्रति ॥१८॥ मण्डपं नगरं मूरिः पामोदिव्यमहोत्सवैः । आश्विनस्यावदातस्य दिवसे हि त्रयोदशे ॥१९॥ ततश्चन्दूः प्रसन्नात्मा पातिसाहिं न्यवेदयत् । आगतो भवदाहृतो विजयदेवमरिराट् ॥२०॥
१४-तुरत्र पुनरर्थे । तेन गुरुः श्रीविजयदेवसूरिः वाचं वाचममोदत । तु पुनः सङ्कः श्रीस्तम्भतीर्थश्रावकगणः श्रावं श्रावं श्रुत्वा श्रुत्वा अमोदत । वाचं वाचं श्रावं श्रावमित्युभयत्र आभीक्ष्णे णमुल चेति णमुल, नित्यवीप्सायां द्विरुक्तिश्च ।
१७-ततः श्रीस्तम्भतीर्थात् ।

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140