Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
१२७
सर्गः]
विनयदेवमूरि-माहात्म्यम् तस्मान्मया केवलमर्थसिद्धयै जिहापवित्रीकरणाय यद्वा । इति स्तुतः श्रीविजयादिदेवः मूरिस्समं श्रीविजयादिसिंहैः ॥२०२॥ आचन्द्रसूर्यं तपगच्छधुर्यो वृतो परेणापि परिच्छदेन । जीयाचिरं स्तान्मम सौख्यलक्ष्म्यै श्रीवल्लभः पाठक इत्यपाठीत् ॥२०॥
इतिश्री बृहत्खरतरगच्छीय श्रीजिनराजसूरिसन्तानीय पाठक श्रीज्ञानविमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराजपातिशाह श्रीअकबरप्रदत्तजगदगुरुविरुदधारक श्री हीरविजयसूरीश्वरपट्टालङ्कार पातिशाहि श्रीअकब्बरसभासंलब्धदुर्वादि जयवाद भट्टारक श्रीविजयसेनसूरीश्वर पट्टपूर्वाचलसहस्रकरानुकारिपातिशाहि श्रीजिहांगीरप्रदत्तमहातपाविरुदधारि श्रीविजयदेवसूरश्विरगुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्य नाम्नि महाकाव्ये श्रीविजयदेवसरि सर्वदेशविहारसान्निध्यादिवर्णनो नामैकोनविंशः सर्गः । तत्समाप्तौ च समाप्तं श्रीश्रीश्रीविजयदेवमाहात्म्यनामकं काव्यं चतुरैर्वाच्चमानं चिरं जीयात् ।
लिखितोऽयं प्रन्थः पण्डितश्री५श्रीरङ्गसोमगाण-शिष्य मुनिसोमगणिना । सं० १७०९ वर्षे चैत्रमासे कृष्णपक्षे एकादशी तिथौ बुधौ लिखितं । श्रीराजनगरे तपागच्छाधिराजभ० श्रीविजयदेवसूरीश्वरविजयराज्ये ।

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140