Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 133
________________ परिशिष्टम्। [तपागच्छीयैकपदावलिगतं विजयदेवसूरिविशेषवर्णनम् ] अथाप्रेतना पट्टावली पुरतोऽनुसन्धीयते सिरिविजयसेणारी, पट्टे गुणसहिमे अ । 'सिरिविजयसेणसूरिति व्याख्या-एकोनषष्टितमे पट्टे श्रीविजयसेनसूरिः, तच्चरित्रं विस्तरतः श्रीविजयप्रशस्तिकाव्यतोऽअसेयं समासतस्त्वेवम्-संवत् १६०४ वर्षे नारदपुर्या जन्म, सं. १६१३ वर्षे पितृमातृभ्यां सह श्रीविजयदानसूरिहस्ते दीक्षा, ततः श्रीहीरविजयसूरिभिः सर्वशास्त्राणि पाठयित्वा डीसाख्यप्रामे ध्यानं कृत्वा सं. १६२८ वर्षे फाल्गुनशुक्लसप्तम्यां श्रीअहम्मदावादे सरिपदं प्रदत्तं । तदनन्तरं सर्वप्रकारेण श्रीतपागच्छे ज्ञानदर्शनचारित्रादिसमृद्धिः शिष्याणां श्रावकाणां च वृद्धिश्च जाता । यतस्तस्मिन् वर्षे ऋषिमेघजीमुख्या लुकाख्यमतमुख्यास्तत्रत्याधिपत्यं हित्वा सर्पः कञ्चलिकामिव तत्कुमतवासनां त्यक्त्वा श्रीतपागच्छगुरूणां शिष्यतां प्राप्ताः, तत्स्वरूपं तु प्राग्निरूपितं । ततः श्रीहीरविजयसूरयः १६३९ वर्षे शाहिश्रीअकबरेण आकारिता यथा सन्मानिताः, तद्वयतिकरोऽपि पूर्व प्रकाशितः । ततः क्रमेण श्रीहीरविजयसूरयः श्रीविजयसेनसरिभिः साई श्रीराजधन्यपुरे चतुर्मासीमासनिास्तस्मिन्नवसरे लाहोरनगरस्थेन श्रीअकब्बरसुरत्राणेन श्रीमदाचार्यगुणगणाकर्णनप्रीतान्त:करणेन तदाकारणाय स्फुरन्मानं प्रैषि । ततः श्रीगुरूणामाज्ञां शेषामिव शीर्षे निधाय ततश्चलन्तः पत्तनप्रभृतिनगराणि बहून् प्रामांश्च पवित्रयन्तोऽनेकसालोकः पूजिताः परिवृताश्च श्रीअर्बुदाचलतीर्थयात्रां विधाय श्रीसीरोहीनगरे प्राप्तास्तदा तन्नायकेन राक्षा श्रीसुरत्राणसम्झेन बह्वाडम्बरपूर्वकं सन्मानिताः । ततः क्रमेण श्रीराणपुर-वरकाणकपार्श्वनाथादियात्रां कृत्वा स्वजन्मनगरी नारदपुरी च गत्वा क्रमेण मेदिनीपुर-डीण्ड्याणक-वैराट-महिमनगरादिषु भव्यलोकान् कोकान् सर्या इव श्रीसूरिधुर्या उद्बोधयन्तो लोधिआणाप्रामे समेयुः । तत्र श्रीशाहिमान्यशेखश्रीअवलफजलभ्रातृजन्मा फयजीनामा श्रीसूरीनन्तुमागतः। तत्रानेकलोकविधीयमानबहुमानवरूपं स्पष्टाष्टावधानादिसायकशिष्यश्रेणिस्वरूपं च दृष्टाऽतीवचमत्कृतचेतास्ततस्त्वरितं लाहोरनगरे गत्वा श्रीशाहिपुरतस्तमुदन्तं यथादृष्टमभ्यधात् । तच्छत्वा शाहिरपि घनाघनानीलकण्ठ इव श्रीगुरून् द्रष्टुं सोत्कण्ठोऽभूत। ततः क्रमेण श्रीसूरयोऽपि शाहिप्रदत्तीयद्वाद्यवादनानेकानेकतुरङ्गमविचित्रवैजयन्तीतोरणधोरणीरमणीयमहामहपुरस्सरं लाभपुरं पुरं प्रविश्य तहिन एव श्रीशेखजीदरबारीरामदासप्रमुखप्रधानपुरुषद्वारा काश्मीरीमहलनानि धाग्नि श्रीशाहमिलिताः । शाहिरपि गुरुन् वीक्ष्य परमप्रमोदमेदुरः सन् श्रीहारविजयसूरीणामुदन्तं वर्मनि कुशलोदन्तं च पृष्टवान् ।

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140