Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 136
________________ विनयदेवसूरि-माहात्म्यम् १३१ सहिअमे सिरिविजयदेवसूरी संवइ तवगणतरणितुल्लो ॥१॥ षष्टितमे पट्टे श्रीविजयदेवसूरिः । तद्वृत्तमपि यथादृष्टं कियल्लिख्यते यथा-श्रीराजदेशमण्डने ईडरदुर्गे संवत् १६३४ वर्षे जन्म । ततो नवमे वर्षे-१६४३ वर्षे जनन्या सह दीक्षा । ततः १६५५ वर्षे पण्डितपदं । ततोऽनुक्रमेण १६५६ वर्षे स्तम्भतीर्थे सूरिपदं । तद्व्यतिकरो यथासर्वव्यवहारिश्रेणिशिरोमणि सा० श्रीमल्लनामा स्वभ्रातृजन्मना सा० सोमाख्येन सह श्रीआचार्यपदस्थापनार्थमर्थव्ययं कर्तृकामः प्रकामप्रमोदेन मरुमेदपाटलाटसौराष्ट्रकच्छकुक्कणादिदेशेषु गूर्जरदेशे च प्रतिग्राम प्रतिनगरं कुङ्कुमपत्रिकाप्रेषणपूर्व सबलोकान् सहस्रशः समाहूय तपागणयतियतिनीसप्तशतीमितपरिकरमाकारितवान् । अथ सकलसामिलनानन्तरं श्रीमल्लसाधुना बन्धुरवाऽधरीकृतसुरमन्दिरे निजमन्दिरे दिव्यदुकूलकमनीयमण्डपं शक्रमण्डपमिव निर्माय विज्ञप्ता: श्रीविजसेनसरयो वैशाखशुद्धचतुर्थी चतुर्थे रवियोगे कुमारयोगे मृगाङ्कमृगशिरःसंयोगाद् अमृतसिद्वियोगेऽपि च श्रीविजयदेवसूरिरिति नामस्थापनपूर्वकं सूरिपदं ददुः । अथ श्रीमल्लसाधुना सन्तुष्टेन सबभाक्तिस्तथाचक्रे यथा कल्पवृक्ष एवायमिति मेने । किं बहुना तस्मिन्महे सा०श्रीमल्लेन दशसहस्ररूप्यकव्ययः कृतः। ततस्तप्रेतनदिने तत्रयेन ठक्करकीकाख्येन तत्पदोत्सवनिमित्तमेवाष्टसहस्ररूप्यकव्ययपूर्व प्रतिष्ठा कारिता । एवं सर्वसङ्ख्यया श्रीविजयदेवसूरीणां पदमहे पञ्चाशत्सहस्रप्रमिता महिमुन्दिका व्ययिताः । ततः १६५८ वर्षे पत्तने परीक्षकसहस्रवीरसझेन पञ्चसहस्रमहिमुन्दिकाव्ययपूर्वकं गच्छानुज्ञानन्दिमहश्चक्रे । अथ श्रीविजयदेवसूरयोऽहम्मदावादे प्रतिष्ठाद्वयं, पत्तने प्रतिष्ठाचतुष्टयं, रतम्भतीर्थे प्रतिष्ठात्रयं बहुद्रव्यव्ययपूर्वकं कृत्वा स्वजन्मभूमौ श्रीइलादुर्गे चतुमासी चक्रुः । तदा तत्रत्यैः सङ्घलोकैरनेके महोत्सवाः कृताः। तन्माहात्म्यहृष्टो राजा श्रीकल्याणमल्लनामा[चिन्ता]मणिपाठिमहाभट्टचट्टवेष्टितः प्रतिश्रयं प्राप्तस्तकवादमकारयत् । तदा तेषां सूरीणां पुण्योदयात्पार्श्ववतिभिर्वा दिदर्पसर्पगारुडरत्नैः पण्डितपद्मसागरगणिगीतार्थशिरोरत्नैरेव सर्वेऽपि भट्रास्तथा निर्जिता यथा लाजताः सन्तोऽहो! गुरूणां गुरुतेति स्तुवन्तो राजेन्द्रमुख्याः स्वाश्रयं प्रापुः। तदा तत्र महती प्रभावना जाता । ततो बृहनगरे वीरप्रतिष्ठा कृत्वा राजनगरे चतुर्मासी स्थिताः । तत्रावसरे इलादुर्गे श्रीऋषभदेवबिम्बं यवनैङ्गितं ततस्तत्प्रमाणमेव नवीनं बिम्बं श्राद्धैर्विधाप्य नटीपद्रे महत्यां प्रतिष्ठायां श्रीसरिभिः प्रतिष्ठाप्य गिरिशिरःस्थचैत्यचैत्योद्धारपूर्वकं स्थापितं । ततोऽन्यदा श्रीमण्डपाचले श्रीअकबरपातिशाहिपुत्रजिहांगरिसलेमशाहिः श्रीसूरीन् स्तम्भतीर्थतः सबहुमानमाकार्य गुरूणां मूर्ति रूपस्फूर्ति च वीक्ष्य वचनागोचरं चमत्कारमाप्तवान् । ततः समये श्रीगुरुभिः समं धर्मगोष्ठीक्षणे विचित्रधर्मवाती पृष्ट्वा साक्षाद् गुरुस्वरूपं निरुपमं दृष्ट्वा च स्वपक्षीयैः परैः प्राक् किञ्चिद् व्युमाहितोऽपि शाहिस्तदा तत्पुण्यप्रकर्षेण हर्षितः सन् श्रीहारसूरीणां श्रीविजयसेनसूरीणां च पट्टे एत एव पट्टधराः सर्वाधिपत्यभाजो भवन्तु, नापरः कोऽपि कूपमण्डू

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140