Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
सर्गः]
विजयदेवसूरि-माहात्म्यम् अथ श्रीविजयाद्देवो देवमूरिरिव श्रिया । लोकैरनेकैरानन्दात् स्तूयमान इति स्फुटम् ॥५४॥ विजहार बहून देशान् पार्यमानः पदे पदे । वसुदेव इवाभङ्ग सौभाग्यान्नूतनोऽभ्यगात् ॥५५॥ प्रथमं सर्वदेशश्रीमण्डनेऽवन्तिमण्डले । तत्र मण्डपदुर्गादिदुर्गे दुर्गेश्वरोपमः ॥५६॥ सौराष्ट्रराष्ट्रसम्बन्धिश्रीमत्संघाग्रहग्रहात् । श्रीद्वीपबन्दिरादौ च श्रीनवानगरेऽपि च ॥५७॥ विचित्रगूर्जरत्रासु श्रीपत्तनपुरादिषु । कुर्वश्चा:श्चतुर्मासीरसीममहिमामयीः ॥१८॥ इलादुर्गे जन्मभूमौ साबल्यां चान्तराऽन्तरा । सृजन्माहात्म्यतः श्रेष्ठां जेष्ठस्थितिचतुष्टयीम् ॥५९
५४-अथेति अधिकारान्तरे । श्रियोपलक्षितो विजयाद्विनयशब्दात् पुरतो देवशब्दो योज्यते तेन श्रीविजयदेवसूारीरित्यर्थः। किं० श्रिया मत्या गिरा वागचातुर्या वा देवसूरिब्रहस्पतिरिव राजमान इति अध्याहार्य । अत एवानेकैः लोकैः स्तूयमानः । कथमित्युक्तप्रकारेणेति ।
५५-एवंविधः सन् किं कृतवामित्याह-बहून् घनान् देशान् गुरुजिहार पावितवान् । किं क्रियमाणः ? पदे पदे प्रार्थ्यमान इति बह्वादरसूचकविशेषणं न तु स्वेच्छया अत एवाभङ्गसौभाग्यतः किं नूतनोऽपरो वसुदेवोऽयं अभ्यागात प्राप्तवान् | यतोऽयं नाराणां नारीणां च वल्लभ इत्यभङ्गसौभाग्यात् नूतनत्वमसूचि । यतो वसुदेवस्य तु केवलं स्त्रीवल्लभत्वादिति । युग्मव्याख्या ।
५६-अथ यान् देशान् विजहार तन्नामान्याह-दुर्गेश्वरो महादेवस्तदुपमस्तत्तुल्यो गुरुर्गच्छश्वर्येणेति तात्पर्यम् । तथा अवन्तिमण्डले मालवदेशे । मालवाः स्युरवन्तय इति हैमनामकोशः । शेषं सुगमम् ।
__५७-सौराष्ट्रराष्ट्रसम्बन्धी सुरान्देशीयो यः श्रीमान् सबस्तस्याग्रहस्य हठस्य प्रहात् प्रहणात् श्रीद्वीपबन्दिरादौ, आदिशब्दात् उन्नतदुर्ग-श्रीगिरिनारयात्रादिपुण्यकृत्यं कुर्वन् । श्रीद्वीपबन्दिरे चतुर्मासकत्रयमन्तरान्तरा चक्रे । तत्र तन्माहात्म्यात्प्रथमज्येष्ठस्थितावेव फरंगीपातिशाहिनापि कदाप्यभूतपूर्वा व्याख्यानकरणाज्ञा दत्ता | सा त्वद्यापि सर्वेषां चमत्कृतिं कुर्वति प्रवर्तते चेति । शेष नवीननगरगमनादिसुबोधम् ।
५८-विचित्रा विविधग्रामनगरपुरादिसंकीर्णा या गूर्जरत्रास्तासु, गूर्जरदेशेषु इति यावत ; श्रीपत्तनादिनगरेषु । अत्र प्रथमं पत्तनग्रहणं प्रथमचतुर्मासकस्य तत्र विधानात् । आदि शब्दादन्येषु स्तंभतीर्थ-राजनगर-राजधन्यपुरादिषु चार्वीः रम्याः चतुर्मासीः । किं असीममहिमामयीः निस्सीममाहात्म्यप्रचुराः । अत्र प्राचुर्यार्थे मयत्प्रत्ययः । तथा च महिमाशब्दः आकारान्तोऽप्यस्तीति । शेषं कंठयं ।
५९-ज्येष्ठस्थितयश्चतुर्मास्यः तासां चतुष्टयीं किं माहात्म्यतो गुरुप्रभावात् श्रेष्ठां सृजन कुर्वन् । शेष सुबोधम् ।

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140