Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 121
________________ ११६ श्रीवल्लभोपाध्यायविरचित [एकोनावशः सुधास्यन्तो विधास्यन्त इव शश्वन्महाजनाः । पीयन्ते गोपयःश्रेयाश्रद्धया यद्वचःसुधाम् ॥ पयसस्यन्ति यस्यैते जना वृजिनवर्जिताः । वचः शुचि शुचिश्रेयोमयं ज्ञानमयं प्रियम् ॥४८ सर्वदा ये सुखस्यन्ति दुःखस्यन्ति कदापि न । ऋद्धिस्यन्ति बुधा ये च साम्राज्यस्यन्ति चावनौ॥ स्तुवन्ति त्वांत एवैव श्रयन्ते च शुभाश्रयम् । त्वदीयं चरणाम्भोज भट्टारकशिरोमणे ॥५०॥ युग्मम् सूरयोऽन्ये महीयांसो गरीयांसो यशस्विनः । स्वस्थत्वं स्वस्वगच्छेषु यथा पुण्यं तु विभ्रति ॥ बिभर्ति चक्रिवर्तित्वं तेषु यो जिनशासने। दिव्यं च दानशौण्डत्वमिति तं स्तौति को न विद् ॥ वर्यैश्वर्यसुशौण्डीर्यशौर्यदार्यादिभिर्गुणैः । सर्वेभ्योऽप्यधिकैः किन्तु धात्रैकत्र धृतैस्त्वयि ॥५३॥ -त्रिभिर्विशेषकम् । ४७-व्याख्याः-महाजनाः शश्वत् यद्वचःसुधां श्रीविजयदेवसूरिवचनामृतं पीयन्ते पिबन्ति । पीङ् च पाने चतुर्थस्वरान्तो दिवादिरात्मनेपदी । कया गोपयःश्रेयःश्रद्धया-नीरोगनिर्मलसर्वदोषापहारिश्रेयस्कारिगव्यदुग्धसमानधर्मश्रद्धया । किं कुर्वन्तः ? सुधास्यन्तः आत्मनोऽमृतं वाञ्छन्तः । कथंभूता उत्प्रेक्ष्यन्ते-विधास्यन्त इव आत्मन ऋद्धिं वाञ्छन्त इव । यथा ऋद्धिलालसाः आत्मन ऋद्धिमिच्छन्ति तथा महाजनाः आत्मनः सुधामिच्छन्तीत्यर्थः । विधर्द्धिमूल्ययोरिति हैमानेकार्थः । सुधास्यन्तः विधास्यन्त इत्युभयत्र सर्वप्रातिपदिकानां क्यचि । लालसायां सुक् असुक् वागम इत्यपरे-इत्युक्तत्वालालसायां क्याच सुगागमे च शतृप्रत्ययः। ४८-एते जना यस्य श्रीविजयदेवसूरेः शुचि पवित्रं वचः कर्मतापन्नं पयसस्यन्ति आत्मदुग्धमिच्छन्ति । अस्माकं श्रीविजयदेवसूरिप्ररूपितं वचन दुग्धमित्यर्थः । शेषं स्पष्टं । पयसस्यन्त्यत्र सर्वप्रातिपदिकानां क्यचि, लालसायां असुगागगः । ५०-हे भट्टारकशिरोमणे हे श्रीविजयदेवसूरे त्वां त एव एवं पूर्वोक्तप्रकारेण स्तुवन्ति । चः पुनः त एव त्वदीयं चरणांभोज श्रयन्ते सेवन्ते, ये सर्वदा सुखस्यन्ति आत्मनः सुखमिच्छन्ति । कदापि न दुःखस्यन्ति आत्मनो दुःखं न वाञ्छन्ति । चः पुनः ये बुधाः ऋद्धिस्यन्ति आत्मनः ऋद्धिं वाञ्छन्तिः । च: पुन: येऽवनौ पृथिव्यां साम्राज्यस्यन्ति आत्मनः साम्राज्य वाञ्छन्ति । सुखस्यन्ति दुःखस्यन्ति ऋद्धिस्यन्ति साम्राज्यस्यन्ति इत्येतेषु चतुर्वपि सर्वप्रातिप्रदिकानां क्यचि, लालसायां सुगागमः। ५३-विट पुरुषः अथवा विद, विद् ज्ञाने वेत्तीति विद् पण्डित इत्यर्थः। सुशौडीर्यमिति अद्भुतसाहसिकत्वं । अत्र शाडीर्यशब्दः तालव्यचतुर्दशस्वरादिः । एकत्रेत्येकस्मिन् स्वयि धात्रा वेधसा धृतैरिति ।

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140