Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 120
________________ सर्गः] विजयदेवसूरि-माहात्म्यम् ईक्षमाणः सहस्राक्षः सहस्राक्षिभिरन्वहम् । चेन्न तृप्यति यद्वक्त्रं कथं तर्हि जगज्जनः ॥३९॥ अवतारस्त्वदीयोऽयं संसारापारपारदः । अवतार इव श्रेयान् श्रेयस्कारी च सद्गुरो ॥४०॥ अन्येषां सद्गुणान् सम्यक् पश्यतां त्वद्गुणाननु । विश्रामस्थानकं सूरे कवीनां वचसामसि। ईश्वरीकरणं सत्यं द्योतते त्वयि सम्पति । सर्वीय इव सर्वीयसर्वसर्वगुणाग्रणीः ॥४२॥ चिकीर्षसि रणं सूरे यद्यमा प्रतिवादिभिः । भजन्ते विकृतं तर्हि तमहो प्रतिवादिनः ॥४३॥ चपूर्व प्रतिबुद्धय द्राक् तपूर्व भववारिधेः । मपूर्वं तपसा सिद्धयै शपूर्व ते सुखाप्तये ॥४४॥ त्वं रणं कुरुषे सूरे यदा क्षणमयः क्षणे । श्रुत्वा तं च तदा तं च दधते विविधं बुधाः ॥४५॥ कपूर्व सर्वदायत्तं धपूर्व संयमश्रियः। भपूर्व तपसः शश्वत् वपूर्व शिवयोषितः ॥४६॥ युग्गम्। ४१-किं कुर्वतां कवीनां अन्येषां भट्टारकादीनां सद्गणान् अनु त्वद्गणान् अनुत्वद्गुणेभ्यो हीनान् पश्यतां, अन्यसुरीणां समीचीनान वर्यशौर्योदार्यगाम्भीर्यादीन गुणान् त्वद्गणेभ्यो हीनान् पश्यन्तः कवयो न स्तुवन्तीति कविवचनानां त्वं विश्रामस्थानकं वर्तसे इत्यर्थः । त्वद्गणान् अनु इत्यत्र हीने इति सूत्रेण होनेऽर्थे अनुः कर्मप्रवचनीयः । कर्मप्रवचनीयत्वात् होनार्थस्य अनोरव्ययस्य योगे त्वद्गणान् इति द्वितीया, अनुना सह समासाभावात् पृथक् पदं च । ४२-ईश्वरीकरणं अनीश्वरस्य पुरुषस्य ईश्वरस्य करणं सत्यं त्वयि संप्रति योतते । कस्मिन्निव सर्वाय इव तीर्थङ्कर इव इत्यर्थः । सर्वीय इत्यपि जिने इत्यभिधानकोषात् । सर्वीय इव सर्वेषु सर्वैर्गुणैरप्रामुख्यस्तत्सम्बोधनं सर्वायसर्वसर्वगुणाग्रणीः । ४४-हे सर यदि प्रतिवादिभिरमा सह विकृतं विकारापन्नं प्रतिवादिप्रतिपादित प्रतीपोत्तरदानात रणं संग्राम वादलक्षणं चिकीर्षसि कर्तुमिच्छसि । तर्हि अहो इति आश्चर्य प्रतिवादिनः तं रणं अविकृतं विकाररहितं भजन्ते सेवन्ते । शंभूतं रणं चपूर्व चरणं चारित्रं । किं कृत्वा ? प्राक् प्रतिबुद्धय । पुनः कथंभूतं रणं तपूर्व तरणमित्यर्थः । केन ? तपसा । किमर्थ सिद्ध्यै । पुनः कथंभूतं ? शपूर्व शरणमित्यर्थः । कस्य ? ते तव । किमर्थ ? सुखाप्तये सुखलब्धये । ४६-व्याख्याः-हे सूरे त्वं यदा क्षणे व्याख्यानादि सम्बन्धिनि कालविशेषे रणं शब्द कुरुषे तदा बुधाः पण्डिताः प्रतिवादिनः तं रणं श्रुत्वा, चः पुनः, तं रणं विविधं बहुप्रकारं दधते धरन्ति । कथंभूतः त्वं क्षणमयः उत्सवप्रधानः प्रचुरोत्सवो वा । कथंभूतं रणं ? कपूर्व करणमिन्द्रियमित्यर्थः । जातावेकवचनं, पञ्चेन्द्रियाणि अथवा एकं जिह्वेन्द्रियमित्यर्थः । पुनः कथं ? करणं सर्वदा सर्वकालं आयत्तं वशं निरुत्तरीकरणान् मौनं कुर्वन्तीत्यर्थः । पुनः कथं० रणं ? धपूर्व धरणं संग्रहं । कस्याः संयमाश्रयः । पुनः कथं० रणं ? भपूर्व भरणं पोषणं । कस्य ? तपसः । शश्वत्सदा । पुनः कथं० रणं ? वपूर्व वरणं । कस्याः ? शिवयोषितः ।

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140