Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 118
________________ सनः विजयदेवसूरि-माहात्म्यम् ११३ इत्यादिका महीयस्यः शाखाः शाखन्ति सर्वदा । यत्तपागच्छगच्छस्य विख्याता जगतीतले ॥१२ श्रीपण्डितपदाद्यम्बुधारान्दैरिमा गुरो। श्रीतपाकल्पसद्वक्षमूलं सिञ्चस्त्वमेधय ॥१३॥ मालाकारानिव श्राद्धांस्तत्पपालनतत्परान् । सूरिमन्त्रप्रभावाशीदिवर्धय सद्गुरो ॥१४॥ एधतां श्रीतपागच्छो दीप्यतां सवितेव च । तेजसा सूरिमन्त्रस्य त्वदीयस्य च सर्वदा ॥१५॥ महीयान् श्रीतपागच्छः सर्वगच्छेषु सर्वदा । सर्वदा सर्वदाता च पर्वतात्सर्ववाञ्छितम् ॥१६॥ राजान इव विद्यन्ते श्रावका यत्र सर्वदा । नन्दताच्छीतपागच्छः सततं सततक्षणः ॥१७॥ यत्र त्वमीदृशः मूरिर्वतसे गच्छनायकः । स्तूयसे चेति विद्वद्भिः पातिसाह्यादिभिर्नृपैः ॥१८॥ इतीति किं तदाहउल्लसन्ति भुवि व्योम्नि मूरयस्तारका इव । एकैकतो महीयांसो जाग्रज्ज्योतिष उद्गताः ॥१९॥ विच्छायीकृत्य तान् सर्वान् राजते सवितेव यः । विजयदेवमरीन्द्रस्तपागच्छे स वर्तते ॥२०॥ भूरयः सूरयः सन्तो भूतलेऽभ्युदिता दिवि । यत्प्रतापरविध्वस्ता न प्रेक्ष्यन्ते ग्रहा इव ॥२१॥ यत्रायं दीप्यते मूरिः मृरयस्तत्र नापरे । यत्र सूर्यस्सदोदेति तत्र स्युस्तारकाः कथम् ॥२२॥ ('तत्र किं चन्द्रतारकाः' इति वा पाठः ।) त्वं सरिर्वासरो यत्र न निट् तत्रान्यमूरयः । सदोद्योतः सदोद्बोधः पदार्थानां नवो नवः ॥२३॥ प्रातः सृरियंदा यत्र प्ररूपयति सदृषम् । प्रत्यक्षोऽयं महादेव इति प्राहुस्तदा जनाः ॥२४॥ व्याख्यातिरूपमुत्कर्षात् शास्त्रार्थान् सूरिशेखरः। व्याख्यान्तकि वरव्याख्यां व्याख्यातारोऽन्यसूरयः ॥२५॥ शास्त्रार्थास्तन्मुखमोक्तान ये शण्वन्तितरां नराः । ब्रुवन्तिरूपमेवं ते ब्रुवन्तकि परे बुधाः ॥२६ १६-पर्व पूरणे भ्वादिः परस्मैपदी । २४-सूरियंदा यत्र प्रातः सदृष प्रधानं पुण्यं दानादिचतुर्विधं प्ररूपयति कथयति तदा जनाः अयं प्रत्यक्षो महादेव इति प्राहुः कथयन्ति । महादेवो हि सदृषं प्रधानवपभं प्रकृष्टरूपं करोतीत्यर्थः । तत्करोति तदाचष्टे इति चुरादित्वात सुबंताणिच् ; अथवा सद्वर्ष विद्यमानवृषभं प्ररूपयति प्रकृष्टरूपं पश्यति । अत्र दर्शनार्थे णिच् । २५-सूरिशेखरः श्रीविजयदेवसूरिः सूरिशिरोवतंसः शास्त्रार्थान् व्याकरणमाहित्यालकारच्छन्दस्तर्कप्रमुखानेकशास्त्रार्थान् उत्कर्षात् व्याख्यातिरूपं प्रशस्तं व्याकरोतीत्यर्थः । व्याख्यातारोऽन्यसूरयः वरव्याख्यां शास्त्राणां प्रधानव्याख्यानं व्याख्यान्तकि कुत्सितं व्याकुर्वन्तीत्यर्थः । २६-ये नरास्तन्मुखप्रोक्तान् श्रीविजयदेवसूरिमुखप्ररूपितान शास्त्रार्थान् शृण्वन्तितरां अतिशयेन शण्वन्ति, ते नरा एवं ब्रुवन्तिरूपं प्रशस्तं कथयन्ति । एवमिति किं तदाह-परेऽन्ये वुधाः शालार्थान् ब्रुवन्तकि कुत्सितं कथयन्तीत्यर्थः ।

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140