Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 125
________________ १२० श्रोषल्लभोपाध्यायविरचित [एकोनविंशः आग्रहाज जयमल्लस्य मेडतीयजनस्य च । कियत्कालं स्थितस्तत्र संघः सोऽगायथागतम् ॥८१॥ श्रुत्वा गुरूणामाह्वानं मेदपाटनरेशितुः । मन्त्रीशो जयमल्लस्तु दोदूयां भृशमाप्तवान् ॥८२॥ बहुशो जयमल्लेन विज्ञप्तोऽपि गुरुयंदा । नैव तस्थो तदा मन्त्री राजकार्य ययौ क्वचित् ॥ गुरवस्तु मिषं प्राप्य तदैवाशु प्रतस्थिरे । श्रीवाडीपार्श्वयात्रार्थ वाटिकान्तरुपागताः ॥४४॥ तदा गुरुबन्तुमेता धर्मचन्द्राभिषा बुधाः । कारुण्यपूरितैः पूज्यैस्ते तदा वाचकीकृताः ॥८५।। ततः श्रीमेडताद्रङ्गादाणाजीकस्य भाग्यतः । प्रति मेवाडदेशं ते चलिताः कलिता जनैः ॥८६॥ क्रमेण गोढवाडान्तर्ग्रामे ग्रामे पुरे पुरे । आगृह्यमाणा बहुभिः संधैस्सुकृतकद्वययैः ।।८७॥ नैव तस्थुः क्वचित्किन्तु तीर्थयात्रां प्रचक्रिरे । नडुलनगरे विन्ध्यपुरे श्रीवरकाणके ॥८॥ श्रीमन्नारदपुयी च जीवितस्वामिनेमिनः । सादडीस्थानके राणपुरे च प्रथमप्रभोः॥८९।। इत्यादिसर्तीर्थयात्रां कृत्वा सत्संघसंयुतः । गुरुर्घाणपुरे प्रापत्तद्वार्ता मेदपाटके ।।९०॥ युग्मम् । ततो मेवाडदेशेन्द्रमान्यो झालाकुलोद्भवः । राणः कल्याणजी नाम माग्देवकुलपाटकात् ।।९१॥ घाणेराख्यपुरं यावत् गुरोस्संमुखमागमत् । घनाश्वसुभटश्रेणिरोचिष्णुर्गुरुमानमत् ॥१२॥ दृष्ट्वा तद्भक्तियुक्तिं च श्रुत्वा वाक्यकलामपि । समग्रगोढवाडीयो लोकोप्याश्चर्यभागभूत् ॥ सत्यकारं गुरोर्लात्वा तत्र पादावधारणे । दाग देलवाडकेऽभ्येत्य जने गुर्वागमं जगौ ॥१४॥ अथ श्रीमरिरारोहन्मेदपाटोर्ध्वभूमिकम् । षमणोरपुरस्थायी संघोऽप्यभ्यागमद्गुरोः ॥९॥ षमणोरपुरे सरेरागमात्पूर्वमेव हि । प्रतिष्ठाविधिसामग्री सर्वां सोऽप्यकारयत् ।।९६॥ जलयात्रां गजेन्द्राश्वध्वजाद्याडम्बराद् व्यधात् । तेनैवाडम्बरेणोच्चैश्चक्रे गुर्वागमोत्सवः ॥९७॥ तत्रत्याः श्रावकाः क्षेमा-गङ्गा-जेसाभिधानकाः। त्रयस्सहोदराश्चक्रु प्राक्प्रतिष्ठामहोत्सवम् ॥१८॥ ८१-पदत्रयं तु सुगमं । स गूर्जरदेशीयः सङ्घो बहुविज्ञप्तिं कृत्वा पूज्याचार्यानत्वा च यथागतं राजनगरादिस्थानं अगात् गत इति । ८२-मेदपाटनरेशितुः श्रीराणाजीकस्य आह्वानं श्रुत्वा गुरून् मरुदेशे एव रक्षितुकामो जयमल्लमन्त्री हृदि दोयामासेति । ८६-श्लोकपञ्चकं कण्ठ्यम् । तत्र तुर्यश्लोके जनलोकः किञ्चिदाजीविकाभिः कलिताः सहिताः । अथवा कलण ज्ञाने इत्यस्य धातोर्मानार्थत्वात् कलिता ज्ञाता न तु केनाप्यज्ञाता इति । ८७-अत एव अप्रेतनश्लोके बहुप्रामनगरसंधैः सुकृतकृत्यलाभैलोभिता अपि चतुर्मासीकृते आगृह्यमाणाह, वा इक्ष्यमाणा अपि गुरवः किं च कुरित्यप्रे प्राह । ९४-सुगमः परं देलवाडाख्ये स्वराज्यस्थाने अभ्येत्य आगत्य । जने इत्यत्र जातावेकवचनं तेन समस्तलोके उदयपुरादी गुर्वागमनं पूज्यागमनं जगौ कथयति स्मेति ।

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140