Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
११८
श्रीवल्लभोपाध्यायविरचित
[एकोनविंशः आरासणेऽर्बुदाद्रौ च सीरोहीनगरादिषु । स्वर्णशैलीयदेशे च श्रीजाबालपुरादिषु ॥६०॥ मरुस्थल्यां मेडतादौ कोट्टे घंघाणिकापुरे । ओसवालोत्पत्तिभूमावोकेशनगरादिके ॥६१॥ सपादलक्षदेशे च श्रीमन्नागपुराङ्किते । इत्यादिद्रङ्गदेशेषु व्यहार्षीद् वृषवद्गुरुः ॥६२॥
-सप्तभिः कुलकम् । इतो मरुस्थलीमध्ये सदा स्वास्थ्यनिबन्धनम् । श्रीमत्प्रेरवस्थानमेवाकर्ण्य स्वकर्णयोः ॥६॥ श्रीमेदपाटदेशेशश्रीकर्णनृपमनुना । श्रीजगत्सिहसंज्ञेन श्रीराणाकेन चिन्तितम् ॥६४॥ युग्मम्। अहो मरुस्थले देशे यन्महिना महीयसा । अष्टाब्दावधि यन्त्रष्टा दोषा दुर्भिक्षकादयः ॥६५॥ पश्यामि यदि तस्यास्यं सूरेः सुकृतशेवधेः । मरौ दुष्कालवन्मेदपाटे पापं प्रयाति नः ॥६६॥ ध्यात्वेति तेन धात्रीणां पत्याऽत्यन्तादराद् द्रुतम् । प्रेषिता बहवो लेखाः सरेराकारणाय च ॥६७ तदा पुरे नागपुरे श्रीगुरुविहरन्नभूत् । लेखहारकहस्तेन लेखास्तत्रागता द्रुतम् ॥६॥
६०-आरासणे स्वप्रतिष्ठितमूलनायकाईद्विम्बानां, चकारात् अर्बुदाविपि महता सङ्घन सह यात्रां कुर्वन् । सीरोहीनगरादिष्वपि आदिशब्दाद् बम्भणवाडि-बसन्तपुराधनकतीर्थयात्रां कुर्वन् । चः पुनः स्वर्णशैलीयः स्वर्णगिरिसम्बन्धी यो देशस्तत्र रामसैन्य-भिन्नमालादिषु यात्रां कुर्वन । च: जाबालपुरे चतुर्मासी कुर्वन् ।
६१-मरुदेशे मेडताकोट्टे चतुर्मासीद्वयं तद्देशे च घंघाणीप्रामे सम्पतिभूपतिकारितार्जुनस्वर्णमयप्रतिमानां, ओसवालानां उत्पत्तिस्थाने उकेशनगरे आदिशब्दात् तिमिरीपार्श्वनाथादीनां यात्रां कुर्वन् ।
६२-सवालखनामके देशे श्रीनागोरनगरे चतुर्मासी कृतवान् । इत्यादयो ये व्यावर्णिता द्रका देशाश्च तेषु गुरुर्वृषवद् वृषभ इव अथवा वृषो धर्मस्तद्वत्साक्षाद्धर्म इवाथवा वृषवत्सु पुण्यवत्सु गुरुर्महान् वृषवद्रुः श्रीविजयदेवसरिर्व्यहार्षीत् विहारमकरोत् । अत्र यत्र यावन्त्यः प्रतिष्ठाः कृतास्ता मयाऽन्यगच्छीयत्वात् सम्यग् न ज्ञायन्ते तेन तत्संख्यानं तु तपागच्छीयश्रीविजयप्रशस्तिमहाकाव्यादिभ्योऽवसेयामिति तत्वं । सप्तश्लोकीकुलकव्याख्यति ।
६३-इत इत्यधिकारान्तरे । एकदा सदास्वास्थ्यस्य नित्यसुभिक्षादिसुखस्य निबन्धनं कारणं । अत्र एवकारोऽन्ययोगव्यवच्छेदकस्तेन नान्यत्कारणं । आकण्येति श्रुत्वा । शेषं सुगमम् ।
६५-यचिन्तितं तदेवाह-सुगमोऽयं नवरं अन्तरान्तरापतत्यपि दुष्काले मरौ अष्टाब्दावधीति अष्टौ वर्षाणियावत् शाश्वतं सुभिक्षमेवाजनीति । अहो इति आश्चर्यसूचकमव्ययम् ।
६७-अत्र चकारात् अन्यैरपि श्रीराणकमान्यैः सामन्तामात्यपुरोहितभट्टपण्डितपञ्चोलीप्रमुखैः सूरेः श्रीविजयदेवगुरोः , आकारणायेति मेदपाटदेशे आगच्छन्त्विति विज्ञप्तिः कृतेति तात्पर्यम् ।

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140