Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
सर्गः] विजयदेवसूरि-माहात्म्यम्
१२३ गुरुरपि किं कृतवानित्याहगंभीरध्वनिना तस्मै धर्मलाभं गुरुर्ददौ । नम्राय मेदपाटानामधीशाय हसन्मुखः ॥१२८॥ ततो गुरोरेव मुखे न्यस्तनेत्रो नरेश्वरः । अद्य मे सफलं जन्म जातमित्यूचिवान्मुदा ॥१२९॥ गुरुणा दीयमानायां देशनायामथान्तरे । प्राचे पृथ्वीपतिः स्वामिन् विज्ञप्ति मेऽवधारय॥१३० आयुर्घनतरं केन कर्मणा प्राप्यते प्रभो । सम्यग विज्ञाय शास्त्रेभ्यस्तस्योपायं समादिश ॥१३१ अथोवाच गुरू राजन् सावधानमनाः शृणु । पूर्व श्रीभीमभूपालो जातोऽणहिलपत्तने ॥१३२॥ दीर्घायुषोऽन्यदा श्रुत्वा सोऽथ मालवभूपतीन् । धारायां भोजराजस्य पार्थे प्रैषीत्स्वमन्त्रिणम्।। गत्वा नत्वा च तेऽप्यूचुः पृष्टं भीमेन वोऽस्त्यदः। कथं दीर्घायुषो यूयं वयं त्वल्पायुषः कथम् ॥ येनोपायेन दीर्घायुभवेद्भीमस्तमादिशत् । तिष्ठन्तु भो कियत्कालं सुखं भोजोऽप्यदोऽवदत् ॥ वृक्षमेकमथोद्दिश्य भोजः प्रोचे च मन्त्रिणम् । जातेऽस्मिन् सर्वथाऽपत्रे तवोपायो वदिष्यते ॥ पत्राण्यस्य पतन्तु द्रागिति दध्यौ स मन्त्रिराट् । तच्चिन्तयैव वृक्षोऽभूत् निष्पत्रः पूर्वतो द्रुतम् ॥ अथोपाये च तत्पृप्टे स्पष्टं भोजोऽप्यवक पुनः। सर्वथा फलिते क्षेऽस्मिन्नुपायोऽथ वक्ष्यते ॥ सत्फलः फलदः शीघ्र स्तादेवं चिन्तितोऽमुना। पुरा नैवाभवद् यादृक् तादृक् स फलितःक्षणात् ॥ हसन्नथो भोजनृपः प्राह तं भीमधीसखम् । तव ध्यानाद्यथा वृक्षो जातोऽपत्रश्च पत्रयुक्॥ तथा प्रजानां दुर्ध्यानादल्पायुः स्यादिलापतिः । प्रजानां च शुभध्यानादनल्पायुः पुनर्भवेत् ।। दीर्घस्य जीवितस्येति श्रुत्वोपायमिमं स्फुटम् । यथादृष्टं जगौ गत्वा पत्तने भीमभूपतेः ॥१४२॥ ततः प्रभृति भीमोऽपि प्रजानां परिपालनात् । चिरं राज्यं च भुंक्ते स्म लोकानां हितचिन्तनात् ।। तथा त्वमपि भूपाल लोकपालोऽसि पञ्चमः । चिरायुर्भव लोकानामन्योऽन्यहितचिन्तनात् ॥ श्रीजगत्सिंहजीराणः श्रुत्वेति गुरुदेशनाम् । साधु साधु वदन्नुचैः स्वं शिरो धूनयन्मुहुः॥ गुरो त्वदर्शनादेव नूनं भावी जयो मम । गुरुरूचे पुना राजन् यतो धर्मस्ततो जयः॥१४॥ __ अथ राणकः प्राहस धर्मः कीदृशः स्वामिन् यतो नित्यं जयो भवेत् । गुरुर्जगौ शणूर्वीश स तु जीवदयामयः ॥ अथ श्रीराणकः स्माह रञ्जितो गुरुवाक्यतः । यद्युप्माकमभीष्टं तद् व्रत सर्व करोम्यहम् ॥१४८॥ ततो गुरुर्जगौ राजन् जालपातान्निषेधय । पीछोलाख्ये तटाके च तथा तूदयसागरे ॥१४९॥ जन्मनो मासि भाद्राख्ये जीवहिंसां निवारय । जन्ममासं यतः शाहि-दिल्लीनाथोऽप्यपालयत् ॥ राज्याभिषेकवारेऽपि गुरौ हिंसां निवारय । मचिन्दनामके दुर्ग जीर्णोद्धारं च कारय ॥१५१॥ गुरूक्तांश्चतुरो जल्पानेतान् स प्रत्यपद्यत । तदैवारोपयद् घाट जालक्षेपनिषेधकम् ॥१५२॥ लात्वेति नियमान्नत्वा गुरुं दाग मेदपाटराट् । ययौ स्वं सौधमात्मीयपरिवारविराजितः॥१५३ अयो गुरुगूजरत्रां प्रति प्रस्थातुमुत्सुकः । संघेन रक्ष्यमाणोऽपि समीनाग्राममागमत् ॥१५४॥

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140