Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
सर्गः]
धिमयदेवसूरि-माहात्म्यम् विचित्रश्चित्रिताश्वित्रैर्जननेत्रकृतोत्सवाः । आनाययत्स संघेशः शिबिकाः शिवकारिकाः॥४१॥
-त्रिभिर्विशेषकम् । एवं विधाय सामग्री पूमवेशोत्सवोचिताम् । जिनदासो धृतोल्लासो महाजनान् समाह्वयत् ॥ वाजिनो हस्तिनोऽनेकान् अलङ्कारैरलतान् । समास्तीर्णपरिस्तोमान श्रीमानानाययत्ततः ॥४३ वाद्यान्यनेकजातीनि समानाय्य विशेषतः। छटाः सत्केसराम्बूनामकरोत्स महाजने ॥४४॥ प्रक्षेपं पटवासानां महाजनपटेष्वपि । अतिभक्तिमनाः स्वीयहस्ताभ्यां स व्यधात्तदा ॥४५॥ । पूःमवेशोत्सवस्यैवं सामग्रीमग्रतोऽग्रिमाम् । कृत्वाभिमुखमानन्दादानेतुं सोऽवजद् गुरुम् ॥ गत्वा महाजनोपेतो जिनदासो हरिगुरुम् । अभिवन्द्य हृदानन्ध स्वर्णपुष्पैरवर्धयत् ॥४७॥ इन्द्राण्योऽपिहृदा मीताः पूर्णकुम्भान्विताः स्त्रियः। अभ्यवन्दल्लँसन्मुक्ता पङ्क्त्या तं चाभ्यवर्धयन्।। सह लात्वाग्रतः कृत्वा स सूरिं परमन्तरा। प्रावेशयच्च धौंको यशो देशान्तरं स्वकम् ॥४९॥
(-कीर्ति देशान्तरं स्वकाम्'-इति वा पाठः) साध्वाचारात् प्रतिक्रम्य स ई-पथिकी तदा । जिनेन्द्र इव सद्भद्रासनमध्यास तत्क्षणात् ॥५० जिनदासः सुराधीश इवासत च तत्पुरः। श्रीसङ्कसहितो भत्त्या सुरमकरराजितः ॥५॥ आसन्ताग्रत इन्द्राण्य इव देवीसमन्विताः । योषितो योषितां तत्या श्रियां तत्या च चञ्चुरा॥ धर्मोपदेशं श्रीसूरिः शुभाशिषमिवेदृशम् । उपादिशत्प्रसन्नात्मा ततः संघसमक्षकम् ॥५॥ ईदृशं इति कीदृशं तदाह-जिनाः सिद्धास्तथाचार्या उपाध्यायाश्च साधवः ।
श्रियं च मङ्गलं कुर्युः पञ्चैते परमेष्ठिनः ॥५४॥ श्रुत्वेति जिनदासोऽय समुत्थाय स्वपाणिना। श्रीमहाजनहस्तेषु न्यस्तवान् रूपकोत्करम् ॥५५॥ पू:मवेशोत्सवे सूरेरेवं श्रीजिनदासकः । त्रयोदशशतान्यत्र रूप्याण्यव्यययत्तराम् ॥५६॥ ततः संघेन संयुक्तः समहोत्सवपूर्वकम् । विजयसेनसूरीन्द्रपादकाब्जमवन्दत ॥१७॥ उपाध्यायपदं श्रीमद्रत्नचन्द्राय सोऽददात् । पण्डितपदमन्येभ्यः साधुभ्यश्च तदोत्सवात् ॥५॥ विकृत्यभिग्रहं पूर्णमपूर्णमिव सोऽकरोत् । विकृतीनां समस्तानां न सदा भोजनाद् भृशम् ॥१९॥ जिनदासादिक-स्थम्भतीर्थसंघाग्रहाद्गुरुः । अध्यवसचतुर्मासं स्तम्भतीर्थपुरं सुखात् ॥६०॥ भव्यान् प्रावर्तयद् धर्म सिद्धान्तोक्तचतुर्विधे । चतुर्दशानवद्याश्च विद्या अध्यापयन् मुनीन् ॥६॥
४३-श्रीमान् जिनदासः ।
५६-व्यय वित्तसमुत्सर्गे चुरादिः परस्मैपदी । यद्यपि अव्ययत्तरामित्यनेन वित्तसमुत्सर्ग इत्यर्थो लब्धस्तत् कथं पुनरूप्याणीति ? सत्यं, करिकलभवदुक्तिपोषान्नदोषः । अथवा वित्त इत्यस्य सामान्यधनपर्यायत्वात् रूप्याणीति रूप्यशब्दस्सामान्येन सर्वनाणकपर्यायं ब्रुवन्नपि अत्र रूपइया इति भाषापर्यायं ब्रवीति, इत्यतो न पुनरुक्तिदोषः ।

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140