Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
१०२ श्रीवल्लभोपाध्यायविरचितं
[ पञ्चदशः तपांस्येतादृशान्येवमनेकान्यकरोद्गुरुः । तद्विधौ पुनरद्यापि तस्याद्यो दिवसोऽसति ॥२४॥ अद्य यावद्गणाधीशोऽभ्यतपदुस्तपं तपः । एतादृशोऽस्त्यभिप्रायश्चिरायास्य च तत्कृतौ ॥२५॥ जीर्णोद्धाराजरत्तीर्थाऽजरचैत्यादिकं भवेत् । तपो लाभोपमं तर्हि तद्वर्षेऽल्पं तपोऽस्तु चेत् ॥२६ कस्यचिन्महतो मन्त्रिजयमल्लादिकस्य हि । विज्ञप्तिकरणादेव नान्यथा तत्तपोऽल्पता॥ युग्मम् । क्रियात्युग्रतया साक्षादवतीर्णो धनो मुनिः । सन्दिहन्तीति यं वीक्ष्य कवयो यं कलौ किल ॥
आनन्दविमलसूरिद्वितीयोऽयमभूद्गणे । नैवमेषोऽधिकस्तस्मादित्यन्ये ब्रुवते बुधाः ॥२९॥ तदाह-क्रियोद्धारः कृतस्तेन नैतादृक्ष कृतं तपः । महातपा इति ख्यातं नाप्तं च बिरुदं भुवि ॥ इति हेतुत्रयाधिक्यं शोभतेऽस्मिनहर्निशम् । यदत्रान्यगुणाधिक्यमस्ति वक्तुं न तत्क्षमः ॥३१॥
-त्रिभिर्विशेषकम् । क्रियायास्तपसश्चास्य पारं वक्तुं कदापि हि । शक्नुवन्ति कवीन्द्रा नो बृहस्पतिसमा अपि ॥३२॥
इत्युत्तमं श्रीविजयादिदेवसूरिस्तपो दुस्तपमातनोत्तत् ।
श्रीवल्लभः पाठक एवमाख्यत् कर्तुं न शक्तोऽन्यजनो यदीदृक् ॥३३॥ इतिश्री श्रीबृहत्खरतरगच्छीय श्रीजिनराजसूरिसन्तानीयपाठक श्रीज्ञानविमलशिष्य श्रीवल्लभोपाध्यायविरचिते श्रीमत्तपागच्छाधिराज पातशाह श्रीअकबरप्रदत्तजगद्गुरुविरुदधारक श्रीहीरविजयसूरीश्वरपट्टालंकार पातिशाहि श्रीअकबरसभासंलब्धदुर्वादि जयवाद भट्टारक श्रीविजयसेन सूरीश्वरपट्टपूर्वाचलसहस्रकरानुकारि पातिशाहि श्रीजिहांगीरप्रदत्तमहातपाविरुदधारि श्रीविजयदेवसूरीश्वरगुणवर्णनप्रबन्धे श्रीमद्विजयदेवमाहात्म्यनानि महाकाव्ये श्रीविजयदेवसूरिकृततपोवर्णनो नाम पञ्चदशः सर्गः ॥१५॥
HEART:-
-
२४-असगतिदीप्त्यादानेषु भ्वादिरुभयपदी। २५-अस्य श्रीविजयदेवसूरेः । तत्कृतौ तपोविधाने । एतादृशोऽभिप्रायोऽस्ति ।
२७-चेत्तपोलाभोपमं जीर्णोद्धाराऽजरत्तीर्थाऽजरबैत्यादिकं भवत्तेहि तद्वर्षे कस्यचिन्महतो मन्त्रिजयमल्लादिकस्य विज्ञप्तिकरणादेव अल्पं तपोस्तु । अन्यथा तत्तपोऽल्पता तस्य श्री. विजयदेवसूरेस्तपोऽल्पता तपसोऽस्पत्वं नान्यथा नान्येन प्रकारेणेत्यर्थः ।

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140