Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 96
________________ सर्गः ] विजयदेवसूरि-माहात्म्यम् विचिन्त्यैवमुभावेतौ श्रीमडुगरभाषरौ । भ्रातरौ संघसंयुक्तावाहातुं तमगच्छताम् ॥२८॥ प्रणम्य चरणौ सूरेः पुरस्तादुपविश्य च । अवक्ता व्यक्तवद् व्यक्तवाचया तौ गुरुत्तमम् ॥२९॥ नवपल्लवपार्थाईत्मतिमा प्रतितिष्ठतात् । स्वच्छेन विधिनातुच्छगच्छेशागच्छ सत्वरम् ॥३०॥ श्रीसंघ सरिरमाक्षीत् वींझेवापुरवासिनम् । ततो विगतसन्तापः सन्तापं चेतसो हरन् ॥३१॥ भवन्मनोरथः पूर्णश्चतुर्मासीविधानतः। अथ स्याद्भवदाज्ञा चेत् प्रतिष्ठै पल्लिकां प्रति ॥३२॥ मामाह्वयत एतौ यत् श्रीमडुंगरभाषरौ । भ्रातरौ श्रीप्रतिष्ठायै श्रीपल्लीसंघसंयुतौ ॥३३॥ अवोचच्च ततः श्रीमद्वींझेवासंघ आहतः । आह्रास्यतां न यद्येतो नाऽचालयिष्यमन्यथा ॥३४॥ प्रतिष्ठाया महान् लाभः प्रतिषेधानि तं कथम् । अतः सूरे प्रतिष्ठस्व प्रतिमा प्रतितिष्ठ च ॥३५॥ अचलत्स चलत्कल्पवृक्षकल्पो द्युकल्पधीः । संकल्पपूरणायैव तयोर्नान्यात्र कल्पना ॥३६॥ सूरिः प्रामोत् पुरी पल्ली सदातोयध्वनिर्दिवम् । यशस्तस्य च सज्ज्योतिरिव विश्व विवस्वतः॥ अथाकारयतामन्यानागरानगरादितः । तौ सन्तौ च सतः श्राद्धान् ग्रामीणानपि चादरात् ।। चतुर्दिग्भ्यः समाजग्मुः श्रावका जलदा इव । दातुं लातुं च साराणि नीराणि सुयशांसि च ॥ षोडशस्य शतस्याथ षडशीतितमेऽब्दके । वैशाखशुक्लपक्षस्य सुमुहर्ते दिनेऽष्टमे ॥४०॥ प्रत्यतिष्ठद्वरिष्ठात्मा श्रेष्ठेन विधिना गुरुः । नवपल्लवपार्थाऽहत्पतिमां प्रतिमानिमाम् ॥४१॥ अस्मिन्नवसरे मन्त्री जयमल्लः समागमत् । सौधर्मेन्द्र इव द्रष्टुं प्रतिष्ठां तौ च वन्दितुम् ॥४२॥ प्रतिष्ठा-प्रतिमा-चैत्यं निरीक्ष्येति च सोऽवदत् । अधिकाधिकमाहात्म्यं समकारयतामिमौ ॥ ____ २९-अवक्तां-बच परिभाषणे इत्यस्य अनद्यतन लङोति लङि,प्रथमपुरुषद्विवचनं । व्यक्तवत पण्डितवत्, व्यक्तवाचया स्पष्टभाषया । अत्र वाचाशब्दः हलन्ताद्वेति वैकल्पिके टापि टावन्तः। 'वष्टिभागुरिरल्लोपमवाप्योरुपसर्गयोः । आ पञ्चैव हसान्तानां यथा वाचा निशा दिशा।।' इति वचनात्। ___३०-प्रतितिष्ठतात् आशिपि लोटो मध्यमपुरुषस्य तुह्योस्तातडाशिष्यऽन्यतरस्यामिति हि स्थाने वैकल्पिके तातड्. इत्यादेशे रूपम् । ३६-स: श्रीविजयदेवमूरिः अचलत् । किं विशिष्टः ? तयोः डुंगरभाषरयोात्रोः संकल्पपूरणायैव मनोरथासद्धये एव चलत्कल्पवृक्षकल्पः जङ्गमकल्पवृक्षसमानः । कथंभूतः द्युकल्पधीः दिवससमानबुद्धिः । ३९-श्रावकाः आजग्मुः । किं कर्तुं ? साराणि द्रव्याणि दातुं, लोकेभ्य इति गम्यते । पुनः किं कर्तुं ? सुयशांसि लातुं । के इव ? जलदा इव । किं कर्तुं ? नीराणि दातुं । चः पुनः सुयशांसि लातुं । मेघाः सर्वतो दिशः सम्यग् ववषुरिति सुयशांसि लातुमिति पदं युक्तम् । ४३-प्रतिष्ठाप्रतिमाचत्यमित्यत्र समाहारद्वन्द्वत्वादेकवचनम् ।

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140