________________
सर्गः ]
विजयदेवसूरि-माहात्म्यम् विचिन्त्यैवमुभावेतौ श्रीमडुगरभाषरौ । भ्रातरौ संघसंयुक्तावाहातुं तमगच्छताम् ॥२८॥ प्रणम्य चरणौ सूरेः पुरस्तादुपविश्य च । अवक्ता व्यक्तवद् व्यक्तवाचया तौ गुरुत्तमम् ॥२९॥ नवपल्लवपार्थाईत्मतिमा प्रतितिष्ठतात् । स्वच्छेन विधिनातुच्छगच्छेशागच्छ सत्वरम् ॥३०॥ श्रीसंघ सरिरमाक्षीत् वींझेवापुरवासिनम् । ततो विगतसन्तापः सन्तापं चेतसो हरन् ॥३१॥ भवन्मनोरथः पूर्णश्चतुर्मासीविधानतः। अथ स्याद्भवदाज्ञा चेत् प्रतिष्ठै पल्लिकां प्रति ॥३२॥ मामाह्वयत एतौ यत् श्रीमडुंगरभाषरौ । भ्रातरौ श्रीप्रतिष्ठायै श्रीपल्लीसंघसंयुतौ ॥३३॥ अवोचच्च ततः श्रीमद्वींझेवासंघ आहतः । आह्रास्यतां न यद्येतो नाऽचालयिष्यमन्यथा ॥३४॥ प्रतिष्ठाया महान् लाभः प्रतिषेधानि तं कथम् । अतः सूरे प्रतिष्ठस्व प्रतिमा प्रतितिष्ठ च ॥३५॥ अचलत्स चलत्कल्पवृक्षकल्पो द्युकल्पधीः । संकल्पपूरणायैव तयोर्नान्यात्र कल्पना ॥३६॥ सूरिः प्रामोत् पुरी पल्ली सदातोयध्वनिर्दिवम् । यशस्तस्य च सज्ज्योतिरिव विश्व विवस्वतः॥ अथाकारयतामन्यानागरानगरादितः । तौ सन्तौ च सतः श्राद्धान् ग्रामीणानपि चादरात् ।। चतुर्दिग्भ्यः समाजग्मुः श्रावका जलदा इव । दातुं लातुं च साराणि नीराणि सुयशांसि च ॥ षोडशस्य शतस्याथ षडशीतितमेऽब्दके । वैशाखशुक्लपक्षस्य सुमुहर्ते दिनेऽष्टमे ॥४०॥ प्रत्यतिष्ठद्वरिष्ठात्मा श्रेष्ठेन विधिना गुरुः । नवपल्लवपार्थाऽहत्पतिमां प्रतिमानिमाम् ॥४१॥ अस्मिन्नवसरे मन्त्री जयमल्लः समागमत् । सौधर्मेन्द्र इव द्रष्टुं प्रतिष्ठां तौ च वन्दितुम् ॥४२॥ प्रतिष्ठा-प्रतिमा-चैत्यं निरीक्ष्येति च सोऽवदत् । अधिकाधिकमाहात्म्यं समकारयतामिमौ ॥
____ २९-अवक्तां-बच परिभाषणे इत्यस्य अनद्यतन लङोति लङि,प्रथमपुरुषद्विवचनं । व्यक्तवत पण्डितवत्, व्यक्तवाचया स्पष्टभाषया । अत्र वाचाशब्दः हलन्ताद्वेति वैकल्पिके टापि टावन्तः। 'वष्टिभागुरिरल्लोपमवाप्योरुपसर्गयोः । आ पञ्चैव हसान्तानां यथा वाचा निशा दिशा।।' इति वचनात्।
___३०-प्रतितिष्ठतात् आशिपि लोटो मध्यमपुरुषस्य तुह्योस्तातडाशिष्यऽन्यतरस्यामिति हि स्थाने वैकल्पिके तातड्. इत्यादेशे रूपम् ।
३६-स: श्रीविजयदेवमूरिः अचलत् । किं विशिष्टः ? तयोः डुंगरभाषरयोात्रोः संकल्पपूरणायैव मनोरथासद्धये एव चलत्कल्पवृक्षकल्पः जङ्गमकल्पवृक्षसमानः । कथंभूतः द्युकल्पधीः दिवससमानबुद्धिः ।
३९-श्रावकाः आजग्मुः । किं कर्तुं ? साराणि द्रव्याणि दातुं, लोकेभ्य इति गम्यते । पुनः किं कर्तुं ? सुयशांसि लातुं । के इव ? जलदा इव । किं कर्तुं ? नीराणि दातुं । चः पुनः सुयशांसि लातुं । मेघाः सर्वतो दिशः सम्यग् ववषुरिति सुयशांसि लातुमिति पदं युक्तम् ।
४३-प्रतिष्ठाप्रतिमाचत्यमित्यत्र समाहारद्वन्द्वत्वादेकवचनम् ।