________________
श्रीवल्लभोपाध्यायविरचित
[द्वादशः अस्मिन्नवसरे लोकाःपाक पश्चाच्चेदृशाः किल । प्रभावात श्रीगुरोः श्रीमत् पार्श्वनाथस्य चाभवन।। पीवरोरव इच्छंति वामोरव उपासते । लक्ष्मणोरव एधन्ते करभोरव ईशते ॥४५॥ ययोः सेवां समीपं च सद्गुणस्तवनात् श्रिया । प्रसादाद् राज्यमद्वन्दं निर्लोमकरभोपमम् ॥ पीवरोर्वश्च वामोर्चः करमोर्वश्च काश्चन । लक्ष्मणोः कलादक्षाः रंजिताः प्रीतचेतसः ॥४७॥ लक्ष्मीनाम्न्यः सुनामानो रंभानामाश्च सर्वदा । आस्तिक्यमतयोऽर्हन्तमास्तिक्यः स्तुवते च तम्॥ शफोर्वस्तानं जायन्ते संहितोर्वश्च कहिचित् । यद् गुणान याः प्रगायन्ति स्त्रिय इत्यब्रुवंस्तदा॥ एवं सिद्धे प्रतिष्ठायाः कायें तो भ्रातरावथ । कामकुंभाविवाभीक्ष्णं समभोजयतां जनान् ॥५०॥ उचितानि प्रभूतानि भोज्यानि नवनवानि हि । कुण्डलीप्रभृतीनीष्टमृष्टानि स्वद्नान्यहो ।। कान्तविक्रान्तसंघातयुक्तं श्रीजयमल्लकम् । अथवा-सहस्रजनसंयुक्तं मन्त्रिश्रीजयमल्लकम् ।
निमन्त्र्यात्याग्रहं कृत्वा पादजाहं प्रणत्य च ॥५२॥ त्रिभिर्विशेषकम् ।
४४-अस्मिन्नवसरे प्रतिष्ठाकरणानन्तरकाले ईदृशाः । कीदृशा इत्याह
४६-पीवरौ ऊरू सक्थिनी येषां ते पीवरोरवः । वामौ मनोज्ञौ ऊरू येषां ते वामोरवः । लक्ष्मणौ लक्ष्मीवन्तौ उरू येषां ते लक्ष्मणोरवः । लक्ष्मीवान् लक्ष्मणः श्लील इति हैमकोषः । करभवत् ऊरू येषां ते करभोरवः । अर्थयोजनात्वेवम् । पीवरोरवः ययोः श्रीनवपल्लवपार्श्वनाथ श्रीविजयदेवसूर्योः । सेवां इच्छन्ति ययोः इति पदस्य सर्वत्र संबंधात् । वामोरवो ययोः समीपं उपासते । लक्ष्मणोरवः ययोः सद्गुणस्तवनात्, श्रिया लक्ष्म्या एधन्ते । करभोरवः ययोः प्रसादात् राज्यं ईशते ऐश्वर्य कुर्वन्तीत्यर्थः । कथंभूतं राज्यं ? अद्वन्द्वं संग्रामवर्जितम् । सर्वथा वैरिणां अभावात् । पुनः कथंभूतं राज्यं अत एव निलोंमकरभोपमम् ।
४७-४८युग्मम्-अर्हन्तं श्रीनवपल्लवनामानं श्रीपार्श्वनाथ जिनं । चः पुनः तं श्रीविजयदेवसूरिं। पविरोवः वामोर्वः लक्ष्मणोर्व इत्येतेषु त्रिपु संहितशफलक्ष्मणवामादेश्चति अनौपम्येऽपि स्त्रियाम करभोर्व इत्यत्र उरूत्तरपदादौपम्ये इति ऊङ । लक्ष्मी नाम्न्या इत्यत्र अन उपधालोपिनोऽ न्यतरस्यामिति बहुव्रीही वैकल्पिको ङोप् । सुनामान इत्यत्र रम्भानामा इत्यत्र च डाबुभाभ्यामन्यतरस्यामिति बहुब्रीही वैकल्पिक डापप्रत्ययाभावे प्रथमा बहुवचनं । वैकल्पिके डाप् प्रत्यये च रम्भानामा इति प्रथमाबहुवचनम् ।
___ ४९-तदा प्रतिष्ठाकरणानन्तरकाले स्त्रिय इत्यब्रुवन् । इत्तीति किं। याः यद्गुणान् श्रीपार्श्वनाथ-श्रीविजयदेवसूरिगुणान् प्रगायन्ति ताः । शफोर्वः संश्लिष्टसक्थियुक्ता न जायन्ते । चः पुनः कहिचित् संहितोर्वः मिलितसक्थियुक्ता न जायन्ते । शफोर्वः संहितोर्व इत्युभयत्र संहित. शफलक्ष्मणवामादेश्चेति ऊ प्रत्ययः । शफशब्दः श्लिष्टपर्यायः ।