________________
एकादशः सर्गः
अथ सागरपक्षीयः सान्तीदासो महद्धिकः । श्रावकः श्रावकाधीशो नरेश इव शोभते ॥१॥ श्रीमत्यहम्मदावादे वदावदवशंवदः । श्रीमत्सागरपक्षीयमूरिधर्मपरायणः ॥ २॥ युग्मम् । एकदा व्यमृशच्चित्ते स्वीयगुर्वोः परस्परम् । कथं विवाद एकत्ये द्वित्वं चापि कथं पृथक् ॥३॥ प्रभाते गुरुमापृच्छय परस्परमरूपणाम् (-धर्म द्वयप्ररूपणाम् -इति वा पाठः)
निर्णयानि हि साक्षित्वमङ्गीकृत्य तदा वरम् ॥४॥ युग्मम् । गुरोः पार्थ समागत्य श्रीगुरुं स न्यवेदयत् । मदुक्तं वचनं सत्यं कुरु चेदरमिच्छसि ॥५॥ विजयदेवसूरीन्द्रं श्रीमन्मेदतटात् पुरात् । आह्वयाऽन्याऽदरं कृत्वा मुक्त्वात्मीयजनानपि ॥६॥ यदि त्वं पूर्वशास्त्राणामनुसारनिरूपिताम् । कुर्याः प्ररूपणां सारां नान्यथा द्वेषपोषिकाम् ||७|| सूरे सर्वजनीना यज्जिनधर्मप्ररूपणा । क्यापि पारंपरीणा च भवेत्सर्वपथीनिका ॥८॥ ततस्तस्य गुरुः पाह-ब्रूषे श्रावक सुन्दरम् । तमाह्वय, स आयातादायान्यहमितो ध्रुवम् ॥९॥ सान्तीदासस्तदोत्थाय साधर्मिकानकारयत् । तानापृच्छय च तानेव तमाहातुमचालयत् ॥१०॥ विजयदेवसूरीन्द्रश्रावकैरपि संयुतान् । परस्परमुभौ ते हि यद्विरोधनिषेधकाः ॥११॥ युग्मम् । प्रचलन्तस्त आगच्छन् पुरे श्रीमेदिनीतटे । विजयदेवसूरीश्च प्राणमन् प्रेमपूरिताः ॥१२॥ ताभ्यामुत्तामवोचं च वाचं वाचंयमेशितुः । पुरतः प्रीतिकर्ती ते पत्राणि च ददुः करैः ॥१३॥ श्रुत्वा सूरीश्वरो वार्ती तत्पत्राणि प्रवाच्य च । हृद्यमोदत निर्द्वन्द्वो जयो द्वन्द्वक्षयस्सताम् ॥१४॥
(अथवा-हृद्यमोदत निषो जयो द्वेषक्षयः सताम् -इति पाठः) ८-सर्वजनीना सर्वजनेषु प्रसिद्धा । पारम्परीणा परम्परया प्राप्ता । सर्वपीनिका सर्वपथीना एव सर्वपीनिका सर्वपथिषु अव्याहता सर्वजिनधर्ममार्गेषु अव्याहता इत्यर्थः । सर्वजनीना सर्वपीना-इत्युभयत्र प्रसिद्धाव्याहतयोर्जनपथोर्णित्वं वा वक्तव्यं इति वार्तिकात् खप्रत्ययः । पारम्परीणा इत्यत्र युगपरम्पराह्नां भवनं प्राप्तसमूठे ख इति खः ।
९-आयातात् इति या प्रापणे लोट: तातङ्डादेशे रूप । आयानीति इण गतौ आजपूर्वः इत्यस्य लोटः उत्तम पुरुषस्य मेनिरिति मेर्नि इत्यादेशे आडुत्तमस्य पिञ्चेति आडागमे रूपम् ।
११-उभौ इत्यत्र श्रीविजयदेवसूरिश्रावकसमुदायापेक्षया सागरपक्षीयश्रावकसमुदायापेक्षया च द्विवचनम् ।
१३-ताभ्यां सागरपनीयसूरि कथितां सान्तीदासकथितां च वाचं वचनं । वाचंयमेशितुः श्रीविजयदेवसूरिगुरोः पुरतोऽप्रे।