________________
सर्गः ]
विजयदेवसूरि-माहात्म्यम् अभ्यवन्दत सूरीन्द्रस्तीर्थकृत्पतिमा रमाः। श्रीपद्मस्ता गुरुं चैव जनेभ्योऽदाच रूपकं (लंभनीम्) पादाच् श्रीसीहमलोऽपि रूपकाणि यथोचितम् । प्रभोज्य मजुलं भोज्यं मृष्टं सर्वमहाजनम् ॥ ततः श्रीतिमिरीद्रङ्गे पार्श्वनाथं जिनोत्तमम् । उपकेशपुरे मूरिवीरं च प्राणमत्तराम् ॥१०१॥ लोका अनेके रूप्याणामकुर्वन् भनीर्घनाः । उत्सवानप्यनेकांश्च तत्संख्यां नामवं खलु ।। न्यवर्तत ततः मूरिः प्रति श्रीमेदिनीतटम् । संविधातुं चतुर्मासी सङ्घस्याग्रे प्रतिश्रुताम् ॥१०३ विहरन् क्रमतोऽयवं प्रामोच्छीमेदिनीतटम् । उत्सवैर्बहुभिर्दिव्यैः प्राविशत्तदुपाश्रयम् ॥१०४ परिपूर्णी चतुर्मासी श्रीमरिरकरोत्सुखात् । तन्मुखालोकतृप्त्या तु श्रीसङ्घो नाक्षिसन्ततिम् ॥
एवं श्रीविजयादिदेवसुगुरुः सम्पत्यतिष्टत्तराम, श्रीमन्मेदतटे स्फुटे सुखचयैश्चञ्चच्चतुर्मासकम् । अर्हद्विम्बसमुच्चयं च रुचिरश्रीः प्रत्यतिष्ठत्तराम, श्रीश्रीवल्लभपाठकोदितयशाः सर्वत्र जाग्रद्यशाः ॥१०६॥
इतिश्री श्रीवल्लभोपाध्यायविरचिते श्रीगन्तपागच्छाधिराजपातिसाहिश्रीअक्कब्बरप्रदत्तजगद्गुरुविरुदधारकभट्टारक श्रीहरिविजयसूरीश्वरपट्टालङ्कारपात साहिश्रीअकब्बरसभासंलब्धदुर्वादि जयवादभट्टारकश्रीविजयसेनसूरीश्वरपट्टपूर्वाचलसहस्रकरानुकारि पातिसाहिश्रीजिहांगीरप्रदत्तमहातपाबिरुदधारि भ० श्रीविजयदेवसूरीश्वरगुणवर्णनप्रबन्धे श्रीमद्विजयदेवसूरीणां प्रथमागमन-प्रतिष्ठाविधान-श्रीसंघाग्रहचतुर्मास्यवस्थानवर्णनो नाम १० सर्गः ॥
९९-रूपकमित्यत्र जातावेकवचनं तेन रूपकाणीति व्याख्येयम् ।
१०३-कथंभूतां चतुर्मासी सङ्घस्या प्रतिश्रुतां अङ्गीकृतां । प्रतिज्ञातमूरीकृतोररीकृते संश्रुतमभ्युपगतमुररीकृतमाश्रुतं संगीर्ण प्रतिश्रुतं चेति हैमकोपः ।
१०४-तस्मिन् मेदिनीतटे उपाश्रयस्तदुपाश्रयस्तं तदुपाश्रयम् ।