Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 88
________________ सर्गः ] विजयदेवसूरि-माहात्म्यम् अभ्यवन्दत सूरीन्द्रस्तीर्थकृत्पतिमा रमाः। श्रीपद्मस्ता गुरुं चैव जनेभ्योऽदाच रूपकं (लंभनीम्) पादाच् श्रीसीहमलोऽपि रूपकाणि यथोचितम् । प्रभोज्य मजुलं भोज्यं मृष्टं सर्वमहाजनम् ॥ ततः श्रीतिमिरीद्रङ्गे पार्श्वनाथं जिनोत्तमम् । उपकेशपुरे मूरिवीरं च प्राणमत्तराम् ॥१०१॥ लोका अनेके रूप्याणामकुर्वन् भनीर्घनाः । उत्सवानप्यनेकांश्च तत्संख्यां नामवं खलु ।। न्यवर्तत ततः मूरिः प्रति श्रीमेदिनीतटम् । संविधातुं चतुर्मासी सङ्घस्याग्रे प्रतिश्रुताम् ॥१०३ विहरन् क्रमतोऽयवं प्रामोच्छीमेदिनीतटम् । उत्सवैर्बहुभिर्दिव्यैः प्राविशत्तदुपाश्रयम् ॥१०४ परिपूर्णी चतुर्मासी श्रीमरिरकरोत्सुखात् । तन्मुखालोकतृप्त्या तु श्रीसङ्घो नाक्षिसन्ततिम् ॥ एवं श्रीविजयादिदेवसुगुरुः सम्पत्यतिष्टत्तराम, श्रीमन्मेदतटे स्फुटे सुखचयैश्चञ्चच्चतुर्मासकम् । अर्हद्विम्बसमुच्चयं च रुचिरश्रीः प्रत्यतिष्ठत्तराम, श्रीश्रीवल्लभपाठकोदितयशाः सर्वत्र जाग्रद्यशाः ॥१०६॥ इतिश्री श्रीवल्लभोपाध्यायविरचिते श्रीगन्तपागच्छाधिराजपातिसाहिश्रीअक्कब्बरप्रदत्तजगद्गुरुविरुदधारकभट्टारक श्रीहरिविजयसूरीश्वरपट्टालङ्कारपात साहिश्रीअकब्बरसभासंलब्धदुर्वादि जयवादभट्टारकश्रीविजयसेनसूरीश्वरपट्टपूर्वाचलसहस्रकरानुकारि पातिसाहिश्रीजिहांगीरप्रदत्तमहातपाबिरुदधारि भ० श्रीविजयदेवसूरीश्वरगुणवर्णनप्रबन्धे श्रीमद्विजयदेवसूरीणां प्रथमागमन-प्रतिष्ठाविधान-श्रीसंघाग्रहचतुर्मास्यवस्थानवर्णनो नाम १० सर्गः ॥ ९९-रूपकमित्यत्र जातावेकवचनं तेन रूपकाणीति व्याख्येयम् । १०३-कथंभूतां चतुर्मासी सङ्घस्या प्रतिश्रुतां अङ्गीकृतां । प्रतिज्ञातमूरीकृतोररीकृते संश्रुतमभ्युपगतमुररीकृतमाश्रुतं संगीर्ण प्रतिश्रुतं चेति हैमकोपः । १०४-तस्मिन् मेदिनीतटे उपाश्रयस्तदुपाश्रयस्तं तदुपाश्रयम् ।

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140