Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 86
________________ ८१ सर्गः] विजयदेवसूरि-माहात्म्यम् भाज्यानि प्राज्ययोज्यानि कुण्डलीप्रमुखानि ते । शालिदालिघृतालीनि भोजनानि अपाचयन् ॥ सराण सुवारीणि चूर्णानि सुरभीणि च । अकारयन् छटायै ते पटवासाय च स्फुटम् ॥६॥ कर्पूरागरुकस्तूरीचन्दनादीनि चानयन् । वस्तूनि ते प्रशस्तानि प्रतिमार्चनहेतवे ॥६॥ यथायोग्यं यथाशास्त्रं यथाविधि यथोदितम् । प्रतिष्ठायोग्यसामग्री व्यधुरेवं बुधा हि ते ॥६५॥ मण्डपे मण्डयन् बिम्बैः श्रीसहस्रफणादिभिः । अनेकैः शोभितं श्रीमत्पार्थविम्बं ततस्तके ॥६६ विजयदेवसूरीन्द्रो विजयसिंहमूरियुक् । प्रतिष्ठासमयं ज्ञात्वा मण्डपेऽथ समागमत् ॥६७॥ बिम्बं श्रीपार्श्वनाथस्य श्रीसहस्रफणस्य च । बिम्बैरन्ययुतं मूरिः प्रत्यतिष्ठयथाविधि ॥६८॥ ततः श्रीजसवन्ताद्या भ्रातरः पञ्च भक्तितः । विजयदेवसूरीन्द्रनवाङ्गान्यभ्यपूपुजन् ॥६९॥ कारयित्वा प्रतिष्ठां ते रूपकाणि तदा ददुः। महाजनेभ्य इभ्योद्घाः परमानन्दमेदुराः ॥७॥ सूरीन्द्रोऽनेकसाधूनां श्रीपण्डितपदं ददौ । साधवः श्रावकाश्चान्ये तदा सन्तुतुषुस्तराम् ॥७१॥ ततः पञ्चजनीनास्ते निमन्त्र्य श्रीमहाजनान् । प्रभोज्यं केसराम्बूनां छटाचूर्णैरपूपुजन् ॥७२॥ एवं श्रीमेडताद्रङ्गेऽहमतिष्ठामहोत्सवः । विजयदेवसूरीन्द्रकृतः प्रावर्तताद्भुतः ॥७३॥ प्रतिष्ठासुरथापृच्छत् सूरिः सर्दु जगद्गुरुः । अत आकारयन्त्यन्ये प्रतिष्टै भवदाज्ञया ॥७॥ ततः श्रीमेडताद्रङ्गवासी सङ्घोऽब्रवीदिति । प्रतिष्ठसे यदा सूरे त्वां निषेधति को जनः ॥७॥ परमत्रत्य सडगेऽयं भोज्यमाज्यं निषेधति । भोजने भोजनेष्टं च भो जनेश्वर सद्गुरो ! ॥७६॥ स्मित्वा सूरिरपि माह श्रीसद्धं विस्मयान्वितः । किं ब्रूषे सरसोऽप्याह चतुर्मासी कुरुष्व भोः॥ सत एवमभाषिष्ट सूरिः सङ्घ विचारवित् । चतुर्मासीं विधातास्मि युप्माकं च समीहितम् ॥७८ ___अभिवन्दै जिनाधीशाः सन्ति ये तान् मरौ किल । अथवा-अभिवन्दै जिनाधीशपतिमा या मरौ हि ताः । तीर्थानि यानि विद्यन्ते तानि पश्यानि चात्मनाऽधुना । ७९॥ प्रत्ययेऽस्मिन् गृहाणेदं मम स्वाध्यायपुस्तकम् । सत्यंकारमिवेदं चेत्संघ नो मनुषे वचः ॥४०॥ अस्मिन्नवसरे श्रीमत्पुरं योधपुरं वरम् । वरीवर्ति सुखस्फूर्ति लक्ष्मीमूर्तिमयं सदा ॥८१॥ गजसिंहो महाराजस्तत्र शश्वद्विराजते । पराजितपरानेकगजसिंहपराक्रमः ॥८२॥ ६२-ते जसवन्तादयः पञ्च भ्रातरः भोजनानि अपाचयन् । कथंभूतानि प्राज्यानि प्रचुराणि प्राज्ययोज्यानि प्रवरहवियोजनीयानि भोजनानि । अपाचयन् इत्यत्र इकोऽसवणे साकल्यस्य हस्वश्चेति प्रकृतिभावः, न इकोयणीति यण् । ६३-चूर्णानि अबीरगुलालप्रमुखभाषाप्रसिद्धानि । ८०-हे सङ्घ ! चेदिदं वचः चतुर्मासी स्थास्यामि इत्यतल्लक्षणं नो मनुषे तर्हि अस्मिन् प्रत्यये प्रतीतो इदं मम स्वाध्यायपुस्तकं सत्यंकारभिव गृहाण ।

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140