Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
सर्गः
विजयदेवसूरि-माहात्म्यम् मिथोऽङ्गीकृत्य पञ्चाऽपि श्रीप्रतिष्ठाविधापनम् (-मिथोऽङ्गीकृत्य पश्चाप्यर्हत्यतिष्ठाविधापनम्
_इति वा पाठः ) भ्रातृव्यं जिनदासाख्यमपृच्छन् यज्ज्येष्ठनन्दनः ॥२८॥ आलोच्यैवं षडप्येते मिथोऽतिप्रीतचेतसः। अपृच्छन् मेडताद्रङ्गवासिसर्ल्ड विवेकिनः ॥२९॥ तद्यथा-कोठारीवंशविख्यातष्टीलाख्यः श्रावकोत्तमः।।
सोनीवंशे जिनो नाम, सिंहः श्रीमालगोत्रकः ॥३०॥ श्रीमालगोत्रसंजातः घेतसिंहाभिधोऽभवत् । पुत्रत्वेन धृतस्तेन भाति डूङ्गरसिंहकः ॥३१॥ राजसिंहाभिधो मन्त्री, बल्लू नामा च मन्त्रिराट् । श्रीनाथो नाथनामा च, मन्त्री नरबदाङ्गजः।। नगरव्यवहारीन्द्रमित्यादिसमुदायकम् । समाहूय च संभूय प्राणयनिति ते मिथः ॥३३॥
-चतुर्भिः कलापकम् । प्रतिष्ठां पार्श्वनाथादिबिम्बानां कारयाम हि । विजयदेवसूरीन्द्रमिहाहय महोत्सवात् ॥३४॥ तैः पृष्ट इति ते प्राहुर्वरं कुरुत भो वरम् । अत्रालस्यमपास्यं यत् धर्मस्य त्वरिता गतिः ॥३५॥ तानिदं ते पुनः प्राहुः सहास्माभिः समावत । प्रसीदतात्र सद्धर्मकार्ये यूयं महाजनाः ॥३६॥ तेप्यूचुरिति तान् सर्वान् प्रतिपन्नमिदं वचः । गुरुं विज्ञपयिष्यामः सहैष्यामश्च निश्चितम् ॥३७॥ ततः श्रीमेडताद्रङ्गवासिसंघसमन्विताः । प्रातिष्ठन्त शुभे तेऽह्नि श्रीसुवर्णगिरि प्रति ॥३८॥ प्रचलन्तः समाजग्मुस्ते जाबालपुरे ततः । ववन्दिरे च सोत्साहाः श्रीमरिचरणाम्बुजम् ॥३९॥ अभिवन्द्य तदानीं ते सूरि व्यज्ञपयन्निति । गच्छनाथ समागच्छ श्रीमत्सन्मेदिनीतटे ॥४०॥ पार्श्वनाथादिदेवानां प्रतिमाः प्रतिष्ठ च । ततः समवसरणप्रासादे स्थापयामहि ॥४१॥ युग्मम् । मन्त्रिणं जयमल्लं ते मिलित्वा चावदनिदम् । सूरीन्द्रं मुश्च धर्मात्मन्नति यत् त्वद्वचोविना॥ ततः श्रीजयमल्लोऽपि मेदिनीतटसन्युक् । उपमूरि समागत्य नत्वा चैवं न्यवेदयत् ॥४३॥ जसवन्ताधा इमे पञ्च श्रीहर्षतनयाः शुभाः। टीलादि-मेडताद्रङ्गवासिसडन्समन्विताः॥४४॥ सूरे विज्ञपयन्तीति प्रतिमाः प्रतितिष्ठ हि । श्रीमन्मेदतटद्रगमेहि नः कुरु चेप्सितम् ॥४५॥ युग्मम्।
२८-ज्येष्ठस्य बृहद्भातुर्जीवराजाख्यस्य नन्दनः पुत्रः ज्येष्ठनन्दनः । ज्येष्ठः स्यादप्रजे' इति हैमानेकार्थः।
३३-ते हर्षापुत्राः संभूय मिलित्वा इत्यादिसमुदायकं कोठारी टीलाप्रमुखं श्रीमेडतासई समाहूय मिथः इति प्राणयन् इत्यकथयन् । इतीति किं तदाह ।
३४-हीत्यव्ययं निश्चये। ३५-तैः हर्षपुत्रैः । ते टोलाप्रमुखाः ।
३६-समावतेति-भव गतौ इति धातोस्समापूर्वस्य आगमनार्थस्य लोटो मध्यमपुरुषबहुवचनम् ।

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140