SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सर्गः विजयदेवसूरि-माहात्म्यम् मिथोऽङ्गीकृत्य पञ्चाऽपि श्रीप्रतिष्ठाविधापनम् (-मिथोऽङ्गीकृत्य पश्चाप्यर्हत्यतिष्ठाविधापनम् _इति वा पाठः ) भ्रातृव्यं जिनदासाख्यमपृच्छन् यज्ज्येष्ठनन्दनः ॥२८॥ आलोच्यैवं षडप्येते मिथोऽतिप्रीतचेतसः। अपृच्छन् मेडताद्रङ्गवासिसर्ल्ड विवेकिनः ॥२९॥ तद्यथा-कोठारीवंशविख्यातष्टीलाख्यः श्रावकोत्तमः।। सोनीवंशे जिनो नाम, सिंहः श्रीमालगोत्रकः ॥३०॥ श्रीमालगोत्रसंजातः घेतसिंहाभिधोऽभवत् । पुत्रत्वेन धृतस्तेन भाति डूङ्गरसिंहकः ॥३१॥ राजसिंहाभिधो मन्त्री, बल्लू नामा च मन्त्रिराट् । श्रीनाथो नाथनामा च, मन्त्री नरबदाङ्गजः।। नगरव्यवहारीन्द्रमित्यादिसमुदायकम् । समाहूय च संभूय प्राणयनिति ते मिथः ॥३३॥ -चतुर्भिः कलापकम् । प्रतिष्ठां पार्श्वनाथादिबिम्बानां कारयाम हि । विजयदेवसूरीन्द्रमिहाहय महोत्सवात् ॥३४॥ तैः पृष्ट इति ते प्राहुर्वरं कुरुत भो वरम् । अत्रालस्यमपास्यं यत् धर्मस्य त्वरिता गतिः ॥३५॥ तानिदं ते पुनः प्राहुः सहास्माभिः समावत । प्रसीदतात्र सद्धर्मकार्ये यूयं महाजनाः ॥३६॥ तेप्यूचुरिति तान् सर्वान् प्रतिपन्नमिदं वचः । गुरुं विज्ञपयिष्यामः सहैष्यामश्च निश्चितम् ॥३७॥ ततः श्रीमेडताद्रङ्गवासिसंघसमन्विताः । प्रातिष्ठन्त शुभे तेऽह्नि श्रीसुवर्णगिरि प्रति ॥३८॥ प्रचलन्तः समाजग्मुस्ते जाबालपुरे ततः । ववन्दिरे च सोत्साहाः श्रीमरिचरणाम्बुजम् ॥३९॥ अभिवन्द्य तदानीं ते सूरि व्यज्ञपयन्निति । गच्छनाथ समागच्छ श्रीमत्सन्मेदिनीतटे ॥४०॥ पार्श्वनाथादिदेवानां प्रतिमाः प्रतिष्ठ च । ततः समवसरणप्रासादे स्थापयामहि ॥४१॥ युग्मम् । मन्त्रिणं जयमल्लं ते मिलित्वा चावदनिदम् । सूरीन्द्रं मुश्च धर्मात्मन्नति यत् त्वद्वचोविना॥ ततः श्रीजयमल्लोऽपि मेदिनीतटसन्युक् । उपमूरि समागत्य नत्वा चैवं न्यवेदयत् ॥४३॥ जसवन्ताधा इमे पञ्च श्रीहर्षतनयाः शुभाः। टीलादि-मेडताद्रङ्गवासिसडन्समन्विताः॥४४॥ सूरे विज्ञपयन्तीति प्रतिमाः प्रतितिष्ठ हि । श्रीमन्मेदतटद्रगमेहि नः कुरु चेप्सितम् ॥४५॥ युग्मम्। २८-ज्येष्ठस्य बृहद्भातुर्जीवराजाख्यस्य नन्दनः पुत्रः ज्येष्ठनन्दनः । ज्येष्ठः स्यादप्रजे' इति हैमानेकार्थः। ३३-ते हर्षापुत्राः संभूय मिलित्वा इत्यादिसमुदायकं कोठारी टीलाप्रमुखं श्रीमेडतासई समाहूय मिथः इति प्राणयन् इत्यकथयन् । इतीति किं तदाह । ३४-हीत्यव्ययं निश्चये। ३५-तैः हर्षपुत्रैः । ते टोलाप्रमुखाः । ३६-समावतेति-भव गतौ इति धातोस्समापूर्वस्य आगमनार्थस्य लोटो मध्यमपुरुषबहुवचनम् ।
SR No.010676
Book TitleVijaydev Mahatmyam
Original Sutra AuthorN/A
AuthorJinvijay
PublisherJain Sahitya Sanshodhak Samiti
Publication Year1928
Total Pages140
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy