________________
श्रीवल्लभोपाध्यायविरचितं
[दशमः एवं विज्ञापितस्तेन ततः मास्थात् शुभेऽहनि । विजयदेवसूरीन्द्रो विजयसिंहसरियुक् ॥४६॥ श्रावका अपि ते मास्थन् जसवन्तादयस्ततः । श्रीमन्मेदतटद्रङ्गं प्राप्नुवंस्तेऽग्रतो द्रुतम् ॥४७॥ श्रीसूरिजन्तुजातानि मापयन् धर्ममार्हतम् । श्रीमन्मेदतटद्रङ्गसमीपं समुपागमत् ॥४८॥ श्रीहर्षाङ्गरुहाः सर्वे जसवन्तादयस्ततः । श्रुत्वा मूरिं समायात वन्दितुं चाभ्यसंघयन् ॥४९॥ अभिवन्द्यानयन् सूरि मेडतानगरान्तरे । विमान इव यत्रास्ति जनराजिन्युपाश्रये ॥५०॥
(-जनाश्रय उपाश्रये -इति वा पाठ) श्रीसूरीन्द्रः समारुह्य भद्रं भद्रासनं तदा । निदानं वाञ्छितर्द्धिनां जिनधर्ममुपादिशत् ॥५१॥ उदतिष्ठत्ततः सङ्घः श्रुत्वा धर्म गुरुदितम् । मादात्संघाय रूप्याणि जसवन्तो महाशयः ॥५२॥ एवं मेदतटद्रों विजयदेवसद्गुरोः। विजयसिंहवरेश्च जात आगमनोत्सवः ॥५३॥ अथ श्रीजसवन्ताद्याः श्रीहर्षाङ्गरुहाः समे। मूरि व्यज्ञपयन्नेवं प्रणम्य चरणाम्बुजम् ॥५४॥ पतिमानां प्रतिष्ठार्ह श्रेष्ठमीक्षस्व वासरम् । विजयदेवसूरीन्द्र ! सूरीन्द्रप्रणताम्बुजम् ! ॥५५॥ पुण्याहं सुदिनाहं च ततः सूरिनिरैक्षत । माघमासे सिते पक्षे पञ्चमं पञ्चमं धुषु ॥५६॥ सूरिस्तान ज्ञापयामास वासरं भासुरं शुभैः । माघमासस्य पक्षस्य शुक्लस्य खलु पश्चमम् ॥७॥ अभ्युत्थाय ततः मूरिं नत्वा गत्य च मन्दिरे । प्रतिष्ठायोग्यसामग्रीमग्रिमां ते ह्यकारयन् ॥५८॥ रोदस्योरन्तरालस्थं विमानद्वयमुनतम् । मण्डपद्वयमानन्दविधायकमकारयत् ॥१९॥ लोकानां भोजनायोचं मन्दिरस्याग्रतः स्थितम् । प्रतिमानां प्रतिष्ठायै योग्यस्थाने द्वितीयकम् ॥ यशोजुगन्धरीस्फुर्जद्गअद्वन्द्वमिवं किमु । यशस्तण्डुलसद्गअद्वन्द्वं वेति विदुर्जनाः ॥६१॥
४९-अभ्यसन्धयन्-सवेन अभिमुखमगच्छन् । सङ्घन अभियाति अभिसङ्घयति । णाविष्ट वत्प्रातिपदिकस्य इति णौ रूपं । ततः अनद्यतने लङिति लङि प्रथमपुरुषबहुवचनमभ्यसवयन्निति ।
५०-मेडतानगरस्य अन्तरं मध्यं मेडतानगरान्तरं तस्मिन् । अत्र अन्तरशब्दो मध्यपर्यायो न सर्वादिकार्यभाक् । कथंभूते उपाश्रये जनराजिनि-जनै राजत इत्येवं शीलो जनराजी तस्मिन् जनराजिनि । अथवा जनाश्रय उपाश्रये इति पाठान्तरं तत्रायमर्थः-कथंभूते उपाश्रये जनानां आश्रय इव जनाश्रयस्तस्मिन् । कथंभूते उपाश्रये ? विमाने इव विमानोपमाने इत्यर्थः । कथंभूते जनराजिनि सुरलोकशालिनि । जनाश्रय इति पाठे सुरलोकाश्रय इत्यर्थः । सूरि-प्रथमपक्षे श्रीविजयदेवमूरि, द्वितीयपक्षे सूरि अर्थाद्वहस्पतिम् ।
५४-समे सर्वे पञ्चापीत्यर्थः । समशब्दोऽत्र सर्वपर्यायः सर्वादिकार्यभाक् । ५६-युषु दिवसेषु । पञ्चमं मनोज्ञम् ।
६१-इदं मण्डपद्वयं जना इति विदुः-इत्यजानन् । इतीति किं किमु इति वितर्के । यशो जुगन्धरीस्फूर्जद्गद्वन्द्वं । वा इति पक्षान्तरे । यशस्तण्डुलसद्गद्वन्द्वम् ।