________________
८१
सर्गः]
विजयदेवसूरि-माहात्म्यम् भाज्यानि प्राज्ययोज्यानि कुण्डलीप्रमुखानि ते । शालिदालिघृतालीनि भोजनानि अपाचयन् ॥
सराण सुवारीणि चूर्णानि सुरभीणि च । अकारयन् छटायै ते पटवासाय च स्फुटम् ॥६॥ कर्पूरागरुकस्तूरीचन्दनादीनि चानयन् । वस्तूनि ते प्रशस्तानि प्रतिमार्चनहेतवे ॥६॥ यथायोग्यं यथाशास्त्रं यथाविधि यथोदितम् । प्रतिष्ठायोग्यसामग्री व्यधुरेवं बुधा हि ते ॥६५॥ मण्डपे मण्डयन् बिम्बैः श्रीसहस्रफणादिभिः । अनेकैः शोभितं श्रीमत्पार्थविम्बं ततस्तके ॥६६ विजयदेवसूरीन्द्रो विजयसिंहमूरियुक् । प्रतिष्ठासमयं ज्ञात्वा मण्डपेऽथ समागमत् ॥६७॥ बिम्बं श्रीपार्श्वनाथस्य श्रीसहस्रफणस्य च । बिम्बैरन्ययुतं मूरिः प्रत्यतिष्ठयथाविधि ॥६८॥ ततः श्रीजसवन्ताद्या भ्रातरः पञ्च भक्तितः । विजयदेवसूरीन्द्रनवाङ्गान्यभ्यपूपुजन् ॥६९॥ कारयित्वा प्रतिष्ठां ते रूपकाणि तदा ददुः। महाजनेभ्य इभ्योद्घाः परमानन्दमेदुराः ॥७॥ सूरीन्द्रोऽनेकसाधूनां श्रीपण्डितपदं ददौ । साधवः श्रावकाश्चान्ये तदा सन्तुतुषुस्तराम् ॥७१॥ ततः पञ्चजनीनास्ते निमन्त्र्य श्रीमहाजनान् । प्रभोज्यं केसराम्बूनां छटाचूर्णैरपूपुजन् ॥७२॥ एवं श्रीमेडताद्रङ्गेऽहमतिष्ठामहोत्सवः । विजयदेवसूरीन्द्रकृतः प्रावर्तताद्भुतः ॥७३॥ प्रतिष्ठासुरथापृच्छत् सूरिः सर्दु जगद्गुरुः । अत आकारयन्त्यन्ये प्रतिष्टै भवदाज्ञया ॥७॥ ततः श्रीमेडताद्रङ्गवासी सङ्घोऽब्रवीदिति । प्रतिष्ठसे यदा सूरे त्वां निषेधति को जनः ॥७॥ परमत्रत्य सडगेऽयं भोज्यमाज्यं निषेधति । भोजने भोजनेष्टं च भो जनेश्वर सद्गुरो ! ॥७६॥ स्मित्वा सूरिरपि माह श्रीसद्धं विस्मयान्वितः । किं ब्रूषे सरसोऽप्याह चतुर्मासी कुरुष्व भोः॥ सत एवमभाषिष्ट सूरिः सङ्घ विचारवित् । चतुर्मासीं विधातास्मि युप्माकं च समीहितम् ॥७८
___अभिवन्दै जिनाधीशाः सन्ति ये तान् मरौ किल । अथवा-अभिवन्दै जिनाधीशपतिमा या मरौ हि ताः ।
तीर्थानि यानि विद्यन्ते तानि पश्यानि चात्मनाऽधुना । ७९॥ प्रत्ययेऽस्मिन् गृहाणेदं मम स्वाध्यायपुस्तकम् । सत्यंकारमिवेदं चेत्संघ नो मनुषे वचः ॥४०॥ अस्मिन्नवसरे श्रीमत्पुरं योधपुरं वरम् । वरीवर्ति सुखस्फूर्ति लक्ष्मीमूर्तिमयं सदा ॥८१॥ गजसिंहो महाराजस्तत्र शश्वद्विराजते । पराजितपरानेकगजसिंहपराक्रमः ॥८२॥
६२-ते जसवन्तादयः पञ्च भ्रातरः भोजनानि अपाचयन् । कथंभूतानि प्राज्यानि प्रचुराणि प्राज्ययोज्यानि प्रवरहवियोजनीयानि भोजनानि । अपाचयन् इत्यत्र इकोऽसवणे साकल्यस्य हस्वश्चेति प्रकृतिभावः, न इकोयणीति यण् ।
६३-चूर्णानि अबीरगुलालप्रमुखभाषाप्रसिद्धानि ।
८०-हे सङ्घ ! चेदिदं वचः चतुर्मासी स्थास्यामि इत्यतल्लक्षणं नो मनुषे तर्हि अस्मिन् प्रत्यये प्रतीतो इदं मम स्वाध्यायपुस्तकं सत्यंकारभिव गृहाण ।