Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
श्रीवल्लभोपाध्यायविरचितं
[एकादशः गत्वा तेऽपि ततस्तत्र सन्तीदासं न्यवेदयन । विजयदेवसूरीन्द्रो जावालपुरमागमत् ॥३२॥ मुक्तिसागर आदाय भवन्तमभिगच्छतात् । अथवा-गुरुस्त्वदीय आदाय भवन्तमभिगच्छतात् ।
पोस्फुरीति सती शक्तिर्दातुं प्रतिवचो यदि ॥३३॥ सन्तीदासो वचः श्रुत्वा तेषामिति मनोहरम् । अवोचच्च गुरुं स्वीयं मुक्तिसागरनामकम् ॥३४॥ उत्सूत्रभाषकत्वाच श्रीसूर्युदितलोपनात् । तद्वचः कर्णयोः श्रत्वा तद्वचःमहतोऽभवत् ॥३५॥ मुक्तिसागरनामा ज्ञो मुक्तिसागरनामभाक् । मुक्तिसागरनामोजःसंजातरसनादृषद् ॥३६॥ विजयदेवसूरीन्द्रनाममाहात्म्यतर्जितः। निरुत्तरवचःशक्ति गच्छन्मुक्तिसागरः ॥३७॥ द्वौ भेदौसागरो धत्ते विष-रत्नसमुद्भवात् । कलिकालस्य माहात्म्यात् सोऽधुनाऽस्त्यायभेदभाक्॥
३२-तेऽपीति श्रीविजयदेवसूरिश्रावकाः सागरपक्षीयश्रावकाश्च ततः श्रीजावालपुरात् तत्र श्रीअहम्मदावादे ।
३५-३६-युग्मम् , व्याख्या-अयं मुक्तिसागरनामभाक ज्ञः पण्डितः प्रतिवादी तद्वचःप्रहतः अभवत् । तस्य सान्तीदासस्य वचो वचनं श्रीविजयदेवसूरिर्वादी मदाहूतः त्वया सह वादं कर्तुं श्रीजावालपुरे आयातः अथ त्वमपि तेन सह वादं कर्तुं मया सह चल इत्येतल्लक्षणं, तेन प्रहतो निराकृत इव । तद्वचःप्रहतः संजात इत्यर्थः। किं कृत्वा ? तद्वचः कर्णयोः श्रुत्वा तस्य सन्तदासस्य वचः श्रीविजयदेवसरिर्वादी त्वया सह वादं कर्तुं श्रीजाबालपुरे आयात इति कर्णविषये श्रुत्वा । कथंभूतो मुक्तिसागरनामा ज्ञः ? मुक्तिसागरनामभाक् । मुक्तिरेव सा लक्ष्मीस्तस्या गरनाम विषनाम भजतीति मुक्तिसागरनामभाक् । मुक्तिलक्ष्म्याः विपनाम समान इत्यर्थः । यथा अन्यस्यापि सज्जनस्य दुराशयः प्रतिकूलभाषी पुरुषो विषोपमो भवेत्तथा मुक्तिसागरोऽपि प्रतिकूलवादी प्रतिवादी मुक्तिलक्ष्म्या विषोपमानो जात इति भावः । पुनः कथंभूतो मुक्तिसागरनामा ज्ञः? मुक्तिसागरनामोजःसखातरसनादषद्-मुक्तिरेव सा मुक्तिसा मुक्तिलक्ष्मीः तामस्यति क्षिपति नाशयति यत्तत् मुक्तिसा:-मुक्तिप्राप्तिनिषेधकमित्यर्थः । ईदृशं यद्गरमिव विषमिव यत् नाम स मुक्तिसागरनामा; अथवा अग इव पर्वत इव राजते यत्तत् अगरं पाषाणसदृशं मुक्तिसाश्च तत् अगरं च मुक्तिसागरं । एवंविधं यन्नाम तस्य यत् ओजस्तेजस्तेन संजाता रसना दृषद् यस्य सः, मुक्तिसागरनामोजःसंजातरसनादृषद्-मुक्तिलक्ष्मीविनाशकविषप्रायपाषाणप्राय नामप्रभावसंजातजिह्वापाषाण इत्यर्थः । असु क्षेपणे दिवादिः परस्मैपदी, विपि मुक्तिसाः । ओजो दीप्तिप्रकाशयोः अवष्टम्भे बले धातो तेजसीति हैमानेकार्थः । कस्मात् ईदशो जातः इत्याहउत्सूत्रभाषकत्वात् । चः पुनः श्रीसूर्युदितलोपनात् । श्रीसूरिणा श्रीविजयदेवसूरिणा उदितं उक्तं श्रीसूर्युदितं तस्य लोपनं उल्लंघनं तस्मात् ।

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140