Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 67
________________ भीषलभोपाध्यायविरचित [नवमः सौम्याचन्द्रो नु सूर्यो नु प्रतापान्नु सरोरुहम् । सौरभ्यावदनं तस्या इति प्रज्ञाविराद्विदुः ॥ (सौरभ्यादागतौ तस्यास्तमितिज्ञाश्विराद्विदुः-इत्यपि पाठान्तरम् ) देवा देवगुरुयन्ति यां सदा स्वभावतः । दैत्या दैत्यगुरुयन्ति सा ददातु सदा मुदः ॥१४१॥ ईदृक् सा शासनधीशा तं तदेत्यवदन्मुदा । श्रीवल्लभ उपाध्याय उपश्लोकयति स्म याम् ॥ इतीति किं तदाहश्रीपूज्यराज कार्य ते मदाकारणकारणम् । प्रसद्य तद्वद त्वं मां करवाणि त्वदाज्ञया ॥१४॥ ध्यानं मूरिः परित्यज्य तामवोचद्विचारवित् । भूयांसः सन्ति मे शिष्याः अभिषिञ्चानि के प्रति ॥१४४॥ श्रीसूरिणेति विज्ञप्ता सूरिमन्त्रस्य देवता । क्षणमात्रं तदा तस्थौ ध्याननिश्चललोचना ॥१४॥ प्रणिधानेन साऽपश्यत् तपागच्छप्रकाशकम् । कनकविजयं शिष्यमुपाध्यायं जगज्जयम् ॥ यथा भ्रमराः कमलिनीभ्य उद्विमाः कमलिनीः परित्यज्य प्रोद्भताऽतिसुराभनवीनकुसुमगुच्छां छता सम्मुखं यान्ति तथा रमणीयरूपा अपि स्वकीयपरिणीतस्त्रीः परित्यज्य माः शासनदेवतामभिमुखं यान्तीति भावार्थः । अत्र तामिति पदस्य वल्लीत्युपमानं, मां इत्यस्यालिन इत्युपमान, स्त्रीरित्यस्य पणिनीरित्युपमानम् । स्वीरित्यत्र वाऽमशसोरिति वैकल्पिको न इयङ् । १४०-तस्याः शासनदेच्या आगती आगमने ज्ञा:-पण्डिताः तां-शासनदेवतां इति चिराद्विदुः ज्ञातवन्तः । इतीति किं ? त्रयोऽप्यत्र नु शब्दा अव्यया वितीर्थाः । सौम्याकि चन्द्रः! प्रतापाकि सूर्यः? सौरभ्यात्किं सरोरुहं-कमलमिति । सौरभ्याद्वदनं तस्या इति प्रज्ञाश्चिराद्विदुरिति पाठे-तस्याः शासनदेव्या वदनं प्रज्ञाः पण्डिता इति चिराहिदुः । शेषं सर्व प्राग्वत् । १४१-सा पूर्वोक्तप्रकारवर्णिता शासनदेवता सदा मुदो ददातु । सा का ? यां सदा स्वप्रभावत आत्मीयोत्कटस्वतः देवा देवगुरूयन्ति बृहस्पतिमिवाचरन्ति । यां दैत्या दैत्यगुरुवन्ति शुक्रमिवाचरन्ति । देवगुरूयन्ति दैत्यगुरूयन्ति-अत्रोभयत्र उपमानाहाचारे इति क्यचप्रत्ययः । अकृत्सार्वधातुकेति दीर्घश्च । सप्रतापः प्रभावश्च यत्तेजः कोशदण्डजमित्यमरः । १४२-द्वात्रिंशता श्लोकैरुपस्तौति-उपश्लोकयति । णाविष्टवत् प्रातिपदिकस्येति गौरूपं उपश्लोकयति स्म । द्वात्रिंशता श्लोकैरस्तौदित्यर्थः।। १४४-अभिषिञ्चानि के स्वपदे न्यस्यानि स्थापयानीत्यर्थः । अभिषिञ्चानीति 'आशिषि लिक लोटौ' इत्याशिषि लोटि, मेनिरिति मेनि इत्यादेशे आडुत्तमस्य पिचेति आडागमे, उत्तमपुरुषकवचनम् । १४६-प्रणिधानेन समाधिना । प्राणिधानं प्रयत्ने स्यात्प्रवेशे च समाहिताविति-विक्षः।

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140