Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
श्रीवल्लभोपाध्यायविरचित
[ नवमः श्रेष्ठेन विधिना सूरिः प्रत्यष्ठादुत्सवादथ । महावीरजिनेन्द्रस्य प्रतिमामपरा अपि ॥ २७९ ॥ प्रतिष्ठाय जिनेन्द्राणां चैत्यानि परमोत्सवैः । साधूनां विदुषां सूरिः मादात् पण्डितसत्पदम् ॥ व्रतरत्नानि पश्चैव साधूनां भाविनामपि । तानि द्वादश दिव्यानि श्रावकाणां विशेषतः।
(-साधुभ्यो जायमानेभ्यो व्रतरत्नानि पञ्च हि -इति वा पाठः)॥ २८१॥ युग्मम् ॥ श्रावको जयमल्लोऽपि सत्पतिष्ठाविधापकः । श्रीसाधर्मिक लोकेभ्यः प्रादाद्रप्याणि सद्धिया ॥ साधुभ्यो दर्शनिभ्य श्च महात्मभ्योऽप्यनेकधा । अदभ्राण्यतिशुभ्राणि वस्त्राणि प्रवराणि च ॥ एवं मावर्तत श्रेयान प्रतिष्ठापरमोत्सवः । वर्णनीयः कवीन्द्राणां सूरिश्रावकयोस्तदा ॥२८॥ अथान्यदा च सूरीन्द्रस्ततश्चिचलिषोत्सुकः । इत्याख्यज्जयमल्लाख्यं मन्त्रिणं संघसंयुतम् ॥२८॥ इतीति किं तदाहश्रीनागपुरवास्तव्यः सङ्घ आह्वयति स्फुटम् । मेदिनीतटवास्तव्यस्तथान्योऽन्यत्र चान्वहम् ।२८६। यदि बयाः प्रसय त्वं तदाहं विहराण्यतः।वन्दनायुद्भवं पुण्यं प्रापयाणि तथा च तम्।२८७/युग्मम् तदानीं जयमल्लोऽयमुत्थाय विनयान्वितः । प्रालिनम्रसन्मौलिः सर्वश्राद्धशिरोमणिः ॥२८॥ श्रीसुवर्णगिरिद्रङ्गवासी श्रीसद्ध एव च । श्रेष्ठी लाधा महामन्त्री वर्धमानो महामतिः ॥२८९॥ साहः श्रीठाकुराख्यश्च साहुला श्रीकलाभिधः । वधा भ्रातृयुतोऽथान्यः साहः श्रीधर्मदासकः ॥ सडपो डुङ्गरः श्रीमान् साहः श्रीडामराभिधः । वर्धमानादिको वर्धमानोऽमानश्रिया सदा ॥ विजयदेवसूरीन्द्रमित्थं व्यज्ञपयत्तराम् । साम्पतीनां चतुर्मासी निवस श्रेयसे गुरो ! ॥ २९२ ॥
-पञ्चभिः कुलकम् । मन्त्रिणो जयमल्लस्य सहनस्यापि च भूयसे । श्रेयसे हृदयानन्दवृद्धय चोमकरोद् गुरुः ॥२९॥ सामायिकोपवासाद्यान् व्रतोच्चारादिकांश्च सः। अर्हन्निव महाधर्मान कारयन्वारयन्नघम् ॥२९॥ धारयन सर्वसंसारिजन्तुजातदयालुताम् । अपारयच्चतुर्मासी न भावं भविनां गुरुः ॥ २९४ ॥ चतुर्मासी समाप्याथ पुनश्चिचलिपुर्गुरुः। श्रीमन्तं जयमल्लाख्यमपृच्छच्छावकोत्तमम् ॥२९॥
गन्तव्यम् । यत्र तु भूयांसो लाभा भवेयुस्तत्र कथं न गन्तव्यं, अवश्यं तत्र गन्तव्यमित्याशयेन आगता इत्यर्थः।
२८४-सूरिश्रावकयोः श्रीविजयदेवमूरिश्रीजयमल्लावकयोः ।
२९३-ओमकरोत् चतुर्मासी करिष्यामीति अङ्गीकृतवान् । स्यादोम् परमं मतेइति हैमः।
२९४-अपारयत् समापयत । पारतीरण कर्मसमाप्तौ चुरादिरदन्तः परस्मैपदी ।

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140