Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
सर्गः ]
विजयदेवसूरि-माहात्म्यम् रूपकाण्यददाद्रूपं मन्त्री श्रीजयमल्लकः । स्वान्यदेशसमाहृतमहाजनकराम्बुजे ॥३४९॥ पट्टकूलान्यनेकानि मञ्जुलानि नवानि च । याचकादिकलोकानां जयमल्लस्तदाऽददात् ॥३५०॥ दिव्यदालीर्घतव्यालीः सशालीः कलकुण्डलीः । अत्यादरात् स आहूय महाजनमभोजयत् ।। एवं मावर्तत प्रेयान् तदा वन्दनकोत्सवः । सर्वेषां हृदि चानन्दः प्राप्तात्मेहितसम्पदाम् ॥३५२ श्रीमत्सरेरथादरे वसन्नुपविशन्नपि । विजयसिंहमूरीन्द्रो जयताज्जगतीतले ॥३५३॥ दत्तं श्रीगुरुणा धर्मराज्यं लब्ध्वा सशोभताम् । सवित्रा निहितं तेजो दिनान्तेऽमिरिवाधिकम् ॥ दत्तमूरिपदं सूरि प्रभु शुश्रवुषां च तम् । निःशल्ये हृदि शत्रूणां सोऽतिशल्यमिवाभवत् ॥३५॥ प्रतिष्ठितं तमाकर्ण्य गच्छराज्येऽधितेजसि । द्विषां प्रोद्धमिते पूर्व हृदि सोऽमिरिवोत्थितः ॥ तस्य सूर्योदयस्येव प्रातरुल्लोचनालयः । आनन्दन श्रावका लोका नवाभ्युत्थानदर्शकाः॥३५७॥ आक्रामद्गौरवं राज्यमरिवन्दं च दुर्दमम । सममेव स सूरीन्द्रः प्रतापतपनोपमः ॥३५८॥ शत्रुन् सिंहांश्च दुर्जेयान् तेजसा चोजसा क्षणात् । यो जयति विशेषात् स विजयसिंह उच्यते ॥ इति नामाऽभवद्यस्य ततः प्रभृति सार्थकम् । विजयसिंहमूरीन्द्रो जयतात्स चिरं भुवि ॥३६०॥ भट्टारकपदव्याजात् तमदृश्या स्वयं किल । भजतादुग्रतेजाः श्री राजत्साम्राज्यदीक्षितम् ॥३६१ सूरिः सर्वस्य लोकस्य चेत आचारतोऽमृतात् । आदत्तां नातिशीतोष्णः समीर इव दक्षिणः॥ चतुभिरधिकैर्ववर्षेऽशीतितमे शुभे । षोडशस्य शतस्याह्नि षष्ठे पौषसितस्य हि ॥३६॥ एवं प्रशस्यसम्पन्नलक्ष्मीकः कान्तकौतुकः । चिरंजीव्यात्स सूरीन्द्रो यस्यासीद्वन्द्वनोत्सव॥३६४ तदैवमस्तुवन् लोका यं नवं गच्छनायकम् । आशिष नेहशीं यस्मै ददुनन्दतु स प्रभुः ॥३६॥
इत्थं श्रीविजयादिदेवसुगुरुः स्वीयेन सत्पाणिना,
प्राकार्षी द्विजयादिसिंहसुगुरोः पट्टाभिषेकोत्सवम् । ३४९-प्रशस्तं अद दादूपं प्रशस्तं दत्तवानित्यर्थः। तिङोनुवृत्तेस्तिङन्तादपि प्रशंसायां रूपप् इति रूपप् ।
३५४-अग्नि चादित्यः प्रविशतीति श्रुतिः। यथाग्निदिनान्ते सूर्येण निहितं तेजः प्राप्याधिकं शोभते तथा श्रीविजयसिंहसूरिरपि श्रीगुरुणा श्रीविजयदेवसूरिगुरुणा दत्तं धर्मराज्य लब्ध्वा शोभन्तामित्याशीः ।
३५५-दत्तेति अस्यान्वयः-स श्रीविजयसिंहमूरिः शत्रूणां परमतप्रतिवादिनैयायिकादिदर्शनिनां हृदि अतिशल्यमिव अधिकशल्योपमोऽभवत् । कथंभूते हृदि ? निःशल्ये शल्यरहिते इत्यर्थः । कथंभूतानां शत्रूणां सूरि श्रीविजयदेवभट्टारकं दत्तसूरिपदं श्रीविजयसिंहसूरीणां सरिपदं येन स तथा तं चः पुनः तं श्रीविजयसिंहसूरि प्रभुं स्वामिनं गच्छनायकं शुश्रवुषाम् ।

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140