Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 79
________________ श्रीवल्लभोपाध्यायविरचित [नवमः श्रेष्ठकाष्ठमयं मध्ये नानारत्नमयं बहिः । प्रत्यष्टापयदुत्कृष्टं पट्ट समच्छदान्वितम् ॥३३१॥ सूरेश्चरणयोर्बाधा माभूत्तुच्छापि कर्हिचित् । इति निश्चित्य सद्भक्तिधियेन्द्रादधिको यतः॥३३२ आधिक्यमाह-अर्हतोऽध्वनि पन्न्यासे पद्मानीन्द्रो नवैव हि । मुश्चेद्विरतो:मध्ये समवसरणस्य न ॥ उपाश्रयस्य मध्येऽयं बहिस्तादपि चान्वहम् । पद्माधिकानि वासांसि प्रस्तृणाति पदोरधः॥३३४ __-चतुर्भिः कलापकम् । उत्तिष्ठतात्कदाचिच्च कदाचित्तिष्ठतादयम् । यथोचितमुपर्यस्य ददानः पदवन्दनाम् ।।३३५।। इति कारणतः पट्टमतिष्ठापनयोग्यता । मण्डपे शोभमानाऽभूयद्विवेकः प्रमोदकृत् ॥३३६॥ -इति पट्टवर्णनम् । लोकचक्षुविनोदाय प्रारब्धं प्रेक्षणीयकम् । विजयदेवसूरीन्द्रोऽविशत्तमथ मण्डपम् ॥३३७॥ विजयसिंहसूरीन्द्रस्तं प्रविश्य यथोचितम् । श्रीमूरिवचसा श्रीमत्सिंहासन उपाविशत् ॥३३८ पश्यतां सर्वलोकानामकरोत्पादवन्दनाम् । विजयसिंहमूरीणां विजयदेवसरिराट् ॥३३९॥ यथाविधि तदानीं स द्वादशावर्तवन्दनाम् । व्यदधाच्छीमतस्तस्य यदाचारः परः सताम्।।३४० वन्दनां ददतस्तस्य पट्टाः स्तम्भासनस्थिताः । वभुः पुंपुत्रिका इन्द्रास्तिरोजाता इवेक्षितुम् ॥ (-व साक्षिणः-इति वा पाठः)॥३४१॥ सूरिमन्त्रं जगच्छत्रमिव सन्तापवारकम् । प्राददाद्वदनाम्भोजात् प्रसादसुभगाद्रुः ॥३४२॥ श्रीजयसागराख्यस्य श्रीकीर्तिविजयस्य च । श्रीवाचकपदं प्रादात् सूरिय॑त्सर्वतोषकः॥३४३॥ अन्येषां साधुलोकानां विदुषां सजुषां नृणाम् । श्रीपण्डितपदं प्रादात् सूरीन्द्रो यद्विवेकवान् ॥ गीयमानशुभैर्गीतः स्फूर्जज्जयजयारवः । स्तूयमानो गुणैः पुण्यैर्मागधैविबुधैरपि ॥३४५॥ गतव्याधिः समाधिश्रीलब्धसिद्धिः समृद्धिमान् । विजयसिंहसूरीन्द्रःमाभवत् प्रभुताश्रिया।३४६ श्रीगुरौ सुप्रसन्ने हि किं न सिद्धयति वाञ्छितम् । अनीश्वरोऽपीश्वरः किं न नरः को भवेद्भवि।। सुस्वरा युवतीलोकास्तदा गेयान्यगाययन् । वाद्यान्यवादयन् वाद्यवादका अपि चोत्तमाः॥३४८॥ नवताद्भुतम् । पुनः कथंभूतं ? अत एव सुरेन्द्राणां स्पृहणीयं । उतेति वितर्के नराणां का कथाकिं कथनीयमित्यर्थः । इति सिंहासनवर्णनम् । ३३४-स जयमल्ल उत्कृष्टं पढें पाटि इति लोकभाषाप्रसिद्धं प्रत्यष्ठापयत् । कथंभूतं पट्ट मध्ये श्रेष्ठकाष्ठमयं बहिर्नानारत्नमयं । पुनः कथंभूतं ? प्रच्छादान्वितं प्रच्छदैः विछावणा इति भाषाप्रसिद्धैरन्वितं युक्तं । कया प्रत्यष्ठापयत् । सूरेः श्रीविजयदेवसूरेश्वरणयोः काहिचित्तुच्छापि बाधा माभूदिति धिया । कथंभूतः स जयमल्लः-यतः इन्द्रादधिकः । तदेवाह-अर्हतोऽध्वनीत्यादि द्वाभ्यां अर्थ: प्रसिद्ध एव । ३३५-अस्य पट्टस्य उपरि । इति पट्टवर्णनम् ।

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140