________________
श्रीवल्लभोपाध्यायविरचित
[नवमः श्रेष्ठकाष्ठमयं मध्ये नानारत्नमयं बहिः । प्रत्यष्टापयदुत्कृष्टं पट्ट समच्छदान्वितम् ॥३३१॥ सूरेश्चरणयोर्बाधा माभूत्तुच्छापि कर्हिचित् । इति निश्चित्य सद्भक्तिधियेन्द्रादधिको यतः॥३३२ आधिक्यमाह-अर्हतोऽध्वनि पन्न्यासे पद्मानीन्द्रो नवैव हि । मुश्चेद्विरतो:मध्ये समवसरणस्य न ॥ उपाश्रयस्य मध्येऽयं बहिस्तादपि चान्वहम् । पद्माधिकानि वासांसि प्रस्तृणाति पदोरधः॥३३४
__-चतुर्भिः कलापकम् । उत्तिष्ठतात्कदाचिच्च कदाचित्तिष्ठतादयम् । यथोचितमुपर्यस्य ददानः पदवन्दनाम् ।।३३५।। इति कारणतः पट्टमतिष्ठापनयोग्यता । मण्डपे शोभमानाऽभूयद्विवेकः प्रमोदकृत् ॥३३६॥
-इति पट्टवर्णनम् । लोकचक्षुविनोदाय प्रारब्धं प्रेक्षणीयकम् । विजयदेवसूरीन्द्रोऽविशत्तमथ मण्डपम् ॥३३७॥ विजयसिंहसूरीन्द्रस्तं प्रविश्य यथोचितम् । श्रीमूरिवचसा श्रीमत्सिंहासन उपाविशत् ॥३३८ पश्यतां सर्वलोकानामकरोत्पादवन्दनाम् । विजयसिंहमूरीणां विजयदेवसरिराट् ॥३३९॥ यथाविधि तदानीं स द्वादशावर्तवन्दनाम् । व्यदधाच्छीमतस्तस्य यदाचारः परः सताम्।।३४० वन्दनां ददतस्तस्य पट्टाः स्तम्भासनस्थिताः । वभुः पुंपुत्रिका इन्द्रास्तिरोजाता इवेक्षितुम् ॥
(-व साक्षिणः-इति वा पाठः)॥३४१॥ सूरिमन्त्रं जगच्छत्रमिव सन्तापवारकम् । प्राददाद्वदनाम्भोजात् प्रसादसुभगाद्रुः ॥३४२॥ श्रीजयसागराख्यस्य श्रीकीर्तिविजयस्य च । श्रीवाचकपदं प्रादात् सूरिय॑त्सर्वतोषकः॥३४३॥ अन्येषां साधुलोकानां विदुषां सजुषां नृणाम् । श्रीपण्डितपदं प्रादात् सूरीन्द्रो यद्विवेकवान् ॥ गीयमानशुभैर्गीतः स्फूर्जज्जयजयारवः । स्तूयमानो गुणैः पुण्यैर्मागधैविबुधैरपि ॥३४५॥ गतव्याधिः समाधिश्रीलब्धसिद्धिः समृद्धिमान् । विजयसिंहसूरीन्द्रःमाभवत् प्रभुताश्रिया।३४६ श्रीगुरौ सुप्रसन्ने हि किं न सिद्धयति वाञ्छितम् । अनीश्वरोऽपीश्वरः किं न नरः को भवेद्भवि।। सुस्वरा युवतीलोकास्तदा गेयान्यगाययन् । वाद्यान्यवादयन् वाद्यवादका अपि चोत्तमाः॥३४८॥ नवताद्भुतम् । पुनः कथंभूतं ? अत एव सुरेन्द्राणां स्पृहणीयं । उतेति वितर्के नराणां का कथाकिं कथनीयमित्यर्थः । इति सिंहासनवर्णनम् ।
३३४-स जयमल्ल उत्कृष्टं पढें पाटि इति लोकभाषाप्रसिद्धं प्रत्यष्ठापयत् । कथंभूतं पट्ट मध्ये श्रेष्ठकाष्ठमयं बहिर्नानारत्नमयं । पुनः कथंभूतं ? प्रच्छादान्वितं प्रच्छदैः विछावणा इति भाषाप्रसिद्धैरन्वितं युक्तं । कया प्रत्यष्ठापयत् । सूरेः श्रीविजयदेवसूरेश्वरणयोः काहिचित्तुच्छापि बाधा माभूदिति धिया । कथंभूतः स जयमल्लः-यतः इन्द्रादधिकः । तदेवाह-अर्हतोऽध्वनीत्यादि द्वाभ्यां अर्थ: प्रसिद्ध एव ।
३३५-अस्य पट्टस्य उपरि । इति पट्टवर्णनम् ।