________________
सनः
विजयदेवसूरि-माहात्म्यम् अथवा-चित्रकृचित्रिताः स्तम्भपुत्रिका यत्र रेजिरे । नृत्यन्त्य इव नर्तक्यः करैः क्षिसः च चामरैः॥ मालम्बानि प्रलम्बानि यत्र लम्बिनी चोच्चकैः । मुक्तास्रजोऽपि सर्वत्र व्यराजन्त च सर्वतः ॥ सानि ताश्च विलोक्यैवमशडन्त तदा जनाः। माल्या वृक्षजातीनां गुच्छामअरयश्च किम् ॥३२३ व्यराजयत्र सवारं रत्नादर्शविनिर्मितम् । प्रचण्डानेकमार्तण्डैद्वारपालैरिवाश्रितम् ॥३२४॥ पार्षपद्धद्वीपोद्दण्डमोच्चशुण्डाभतोरणम् । पश्यतां सर्वलोकानां परमानन्दकारणम् ॥३२५॥ अथवा-इन्द्रसज्जोकृतोद्दण्डकोदण्डोपमतोरणम् । पश्यतां सर्वलोकानां सर्वकल्याणसूचकम् ॥ मङ्गलैरष्टभिः श्रेष्ठमुक्तारत्नमयैः शुभैः । शोभमानं मनुष्याणां मनोनेत्रोत्सवमदम् ॥३२७॥
-चतुर्भिः कलापकम् । न्यवेशयदयात्यन्तमुन्नतं तत्र मण्डपे । सिंहासनमतिश्रेयो जयमल्लः शुभाश्रयः ॥३२७॥ शोभमानयथास्थानग्रथितानेकरत्नकम् । सुरेन्द्रासनशोभायाः सर्वथा व्यपहारकम् ॥३२८॥ एतस्यैवेदमीक्षं योग्यं नान्यस्य कर्हिचित् । विधात्रेति धिया स्वीयकराभ्यामिव किं कृतम् ॥ साधसाधूचितानेकविस्तीर्णनवताद्भुतम् । स्पृहणीयं सुरेन्द्राणां नराणामुत का कथा ॥३०॥
-चतुर्भिः कलापकम् । ३२१-चित्रति, अस्यान्वयलेश:-यत्र मण्डपे स्तम्भपुत्रिका रेजिरे । कथंभूताः ? उत्प्रेक्ष्यन्ते-क्षिप्तः सुचामरैः करैर्नृत्यन्त्यो नर्तक्य इव | यथा नर्तक्यः क्षिप्तः करैर्नृत्यन्त्यो राजन्ते तथा स्तम्भपुत्रिकाः क्षिप्तः करैः सुचामरैर्नृत्यन्त्यो व्यराजन् इत्यर्थः।
३२२-मालम्बानि सम्बका इति भाषाप्रसिद्धानि यत्र मण्डपे । ३२३-तानि प्रालम्बानि ताश्च मुक्ता लजः ।
३२९-३०, कथंभूतं सिंहासनं विधात्रा स्वीयकराभ्यां इति धिया किं कृतमिव । इतीति कि ईवृक्षमिदं सिंहासनं, एतस्यैव श्रीविजयसिंहस्रेरेव योग्यं । अन्यस्य न कहिचित् । पुनः कथंभूतं सिंहासनं ! साधु साधूचितानेक विस्तीर्णनवताद्भुतम् । साधवो रमणीया उग्रक्रियाकर्तृत्वात् । ये साधवोऽनगारास्तेषामुचितानि योग्यानि अनेकानि प्रचुराणि विस्तीर्णानि यानि नवतानीव नवतानि ते:-दलीचाप्रमुखविछावणासदृशवखैरद्भुतं यत्तत्तथा । 'कुथे वर्णपरिस्तोमप्रवेणी नवताऽस्ति राः' इति हैमवचनानवतशब्दस्य दलीचाप्रमुखस्य पर्यायत्वात् । नवतानीव नवतीनि उत्तमाच्छादनवस्त्राणीति व्याख्या । प्रवेण्याऽऽस्तरणं वर्णः परिस्तामः कुशः कुथः बवतं चेति तुल्यार्थाः । 'प्रच्छदश्वोत्तरच्छद' इति हलायुधः । 'नववर्णकंबले आच्छादनमात्रे वा' इति तट्टीकावचनात् । नवतशब्दोऽत्र आच्छादनपर्यायोऽपि ज्ञेयः । तेन साधुसाधूचितानि अनेकानि विस्तीपनि यानि नववानि विच्छावणा इति भाषाप्रसिद्धानि रद्भुतं यत्तत् साधुसाधूचितानेकविस्तीर्ण.
१०