________________
७२
श्रीवल्लभोपाध्यायविरचितं
[नवमः यत्र कापि च सौवर्णपत्राकारहराणि हि । पीतवासांस्यभासन्त चन्द्रभास इवोद्गताः ॥३११।। अथवा-पीतवासः प्रशस्यश्रीमिषमासाद्यपिञ्जरः । मेरुः सूरी प्रणन्तुं किं यत्रायात इवाबभौ ॥ श्वेतपीताम्बरज्योतिः सूर्यचन्द्रोदितोदयम् । ( -मोदितादित्यचन्द्रमः -इति वा पाठः)।
अबाभानभ एवेदं यत्र क्वाप्यसिताम्बरम् ॥३१३॥ कुत्रचियत्र वस्त्राणि पवित्राण्यरुणानि च । लक्ष्मीपुष्पकुलानीव लक्ष्मी दातुं नृणां बभुः ॥३१४ अथवा-कुत्रचियत्र वस्त्राणि रक्तानि नृमनांसि हि । कर्तुं हीङ्गलवृन्दानि रक्तानीव बभुर्गुरौ ॥ यत्रान्यत्र च कुत्रापि नीलवस्त्राणि रेजिरे । हरिमणिकुलानीव निराकर्तुं द्विषद्विषम् ॥३१६॥ उभालपुण्डरीकालिरिव यत्र व्यराजत । स्तम्भश्रेणिः सुखश्रेणिकारणं सरसि स्फुटम् ॥३१७॥ अथवा-साक्षाभिशामणिश्रेणिः समकालमिवोदिता। द्रष्टुं तद्वन्दनां यत्र स्तम्भश्रेणिस्तदा बभौ॥ यत्र चन्द्रोदयः साक्षाचन्द्रोदय इव व्यभात् । अभितो मोक्तिकस्रग्भिस्तारकाभिविराजितः।३१९ आस्थानवेदिकास्तम्भपुत्रिका देवता इव । यत्र वीजयितुं सूरि स्थिता इव सुचामरैः ॥३२०॥
३१२-यत्र वन्दनोत्सवमण्डपे मेरुः सूरी श्रीविजयदेवमूरि-श्रीविजयसिंहसूरी कर्मतापन्नौ प्रणन्तु किमायात इव आ बभौ शुशुभे । किं कृत्वा ? क्वापि कस्मिन्नपि स्थले पीतवासः प्रशस्यश्रीमिषमासाद्य ।
३१३-यत्र मण्डपे कापि कुत्रचित्स्थले असिताम्बरं कालं वस्त्रं इदं नभ एव आकाशमिव अबाभात् अतिशयेन अदीप्यत । अत्र एवेत्यव्ययमिवार्थे । कथं भूतं कालं वस्त्रं श्वेतपीताम्बरज्योतिः सूर्यचन्द्रोदितोदयं श्वेतपीताम्बरयोर्धवलपिङ्गलचेलयोयोतिः कान्तिस्तदेव सूर्यचन्द्रयोरुदित उदयो यस्मिस्तत्तथा । कथं भूतं नभः ? श्वेतपीताम्बर योर्धवलपिङ्गलचेलयोयोतिः कान्तिर्ययोस्ती श्वेतपीताम्बरज्यौतिषौ । एवं विधौ यो सूर्य चन्द्रौ तयोः उदित उदयो यस्मिस्तत्तथा । श्वेतपीताम्बरज्योतिः प्रोदितादित्यचन्द्रमः इति पाठान्तरम् । तत्रायमर्थ:-किं भूतं ? असिताम्बरं श्वेतपीताम्बरज्योतिरेव । प्रोदितौ आदित्यचन्द्रमसौ यस्मिंस्तत्तथा । यस्मिन् श्यामवस्त्र पूर्वापरनिबद्धश्वेतपीताम्बरज्योतिरेव प्रोदितादित्यचन्द्रमसौ इव शोभते । द्वितीयपक्षे नभो विशेषणे श्वेतपीताम्बरज्योतिषौ प्रोदितौ आदित्य चन्द्रमसौ यस्मिस्तत्तथा । कवयो हि सूर्य श्वेतवर्ण वर्णयन्ति, चन्द्रं च पीतवर्णमिति ।
३१४-लक्ष्मीपुष्पं पनरागमणिः ।
३१५-कथंभूतानि रक्तानि वस्त्राणि उत्प्रेक्ष्यन्ते-हि निश्चितं गुरौ श्रीविजयसिंहसूरौ नृमनांसि रक्तानि कर्तु हीङ्गुलवृन्दानीव । इवोऽत्र मिन्नक्रमे ।
३१६-अप्रेतनेनान्वयः। यत्र मण्डपे स्तम्भश्रेणिय॑राजत | कस्मिन् केव-सरसि उन्नालपुण्डरीकालिरिव । कथंभूता स्तम्भश्रेणिः उन्नालपुण्डरीकालिश्च-स्फुटं सुखश्रेणिकारणम् ।