________________
सर्गः]
विजयदेवसूरि-माहात्म्यम् अवस्थानं न साधूनामेकत्र किल युज्यते । अतोऽतोऽथ प्रतिष्ठेय भवदाज्ञा भवेद्यदि ॥२९६॥ श्रुत्वेति वचनं सुरिमरूपितमनिन्दितम् । संगृह्य चरणौ मूर्दा संस्पृश्येति च सोऽवदत् ॥२९७॥ विजयसिंहसूरीन्द्रवन्दनकमहोत्सवम् । स्वयं कुरु गुरुश्रेयः श्रेयांस करवै च तम् ॥२९८॥ इत्युक्तो जयमल्लेन स्वमनोरथसिद्धये । भवत्वेवं महाभाग मूरिराह प्रसन्नहृद् ॥ २९९ ॥ ततः श्रीजयमल्लोऽथ श्रावकान् देशदेशतः । श्रीमच्छिवपुरीवासितेजपालादिकान् घनान् ।३००। विजयसिंहसूर्यहिवन्दनोत्सव उत्तमः । भवितात्राऽतः समायान्तु मयि भूत्वा कृपापराः॥३०१॥ ततो द्रव्यार्थिनः केऽपि केऽपि धर्मव्यथार्थिनः। केऽपि कौतुकिनो दक्षाः केऽपि तद्वन्दनोत्सुकाः॥ अश्वारोहा रथारोहा ओष्ट्रारोहाश्व केचन । पदातिका अनेके च राजान इव राजिताः॥३०॥ सासिनीकाः सपत्नीका वरस्त्रीकाः समातरः । महाजनाः समाजग्मुर्बहिरन्तश्च चारिणः॥३०४॥
-त्रिभिर्विशेषकम् । सौवर्णानि सुवर्णानि काय आभरणानि च । देवानामिव देवीनामिव पुंसां च योषिताम् ।३०५॥ सुवर्णमिव सत्पास्नं स्वणं चात्यन्तमोहकम् । तदेत्याहुर्जना वीक्ष्य सुवर्णगिरिरेषकः॥३०६॥युग्मम् यत्रानेकगवादीनां भूरिर्मारिरभूत्पुरा । अपूर्वा न कदा पूर्व साऽभूच्छ्रीगुरुतेजसा ॥३०७॥ सुवर्णगिरिरित्याख्या यथार्थाद्याभवच्छुभा । इति ब्रुवन्ति सल्लोका यद्यथादृष्टसूचकाः ॥१०॥ अथ श्रीजयमल्लाख्यः सन्मण्डपममण्डयत् । पारदेशिकवस्त्राणां वन्दनोत्सवहेतवे ॥ ३०९ ॥ अथ वन्दनोत्सवमण्डपवर्णनम्श्रीकैलासशिलातुल्याश्चञ्चुराः शुचयः सिचः । व्यभुध्वन्तिहृतो यत्र मध्याह्नार्कप्रभा इव ।३१०॥
२९६-अतः अस्मात्कारणात् । अतः श्रीसुवर्णगिरिनगरात् ।
३०४-धर्माय धर्मनिगिन्तं व्ययमर्थयंतीत्येवं शीला: धर्मव्ययार्थिनः । धर्मनिमित्तं व्ययकर्तार इत्यर्थः। तयोः श्रीविजयदेवसूरि-श्रीविजयसिंहसूयॉर्वन्दना तस्यां उत्सुकास्तद्वन्दनोत्सुकाः। सह असिनीभिः अन्तःपुरचारिणीभिर्ये ते सासिनीकाः । 'असिनी स्यादवृद्धा या प्रैष्यान्त:पुरचारिणीत्यमरः । सह पत्नीभिः परिणीतस्त्रीभिर्वर्तन्ते सपत्नीकाः ।
३०६-पुंसां समूहः पौंस्नं । स्त्रीणां समूह बैणं । स्त्रीपुंसाभ्यां नस्नो भवनादिति समूहेऽर्थे नस्नञ्चप्रत्यययोः साधू । एष एव एषकः । सर्वशब्देभ्यः स्वार्थे कन्निति कन् । सुव. गिरिभैरुस्स इव । सुवर्णगिरिमरुपर्वतोपम इत्यर्थः ।
३०८-यत्रेति व्याख्याः-सल्लोका इति ब्रुवन्ति । इतीति किम् ? सुवर्णगिरिरित्याख्याऽद्य यथार्थाऽभवत् । इतीति किम् ? यत्र सुवर्णगिरौ अनेकगवादीनां भूरिसरिः पुराऽभूत् । सा न कदा पूर्व श्रीगुरुतेजसा अपूर्वा मारिरभूत् ।