Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 77
________________ ७२ श्रीवल्लभोपाध्यायविरचितं [नवमः यत्र कापि च सौवर्णपत्राकारहराणि हि । पीतवासांस्यभासन्त चन्द्रभास इवोद्गताः ॥३११।। अथवा-पीतवासः प्रशस्यश्रीमिषमासाद्यपिञ्जरः । मेरुः सूरी प्रणन्तुं किं यत्रायात इवाबभौ ॥ श्वेतपीताम्बरज्योतिः सूर्यचन्द्रोदितोदयम् । ( -मोदितादित्यचन्द्रमः -इति वा पाठः)। अबाभानभ एवेदं यत्र क्वाप्यसिताम्बरम् ॥३१३॥ कुत्रचियत्र वस्त्राणि पवित्राण्यरुणानि च । लक्ष्मीपुष्पकुलानीव लक्ष्मी दातुं नृणां बभुः ॥३१४ अथवा-कुत्रचियत्र वस्त्राणि रक्तानि नृमनांसि हि । कर्तुं हीङ्गलवृन्दानि रक्तानीव बभुर्गुरौ ॥ यत्रान्यत्र च कुत्रापि नीलवस्त्राणि रेजिरे । हरिमणिकुलानीव निराकर्तुं द्विषद्विषम् ॥३१६॥ उभालपुण्डरीकालिरिव यत्र व्यराजत । स्तम्भश्रेणिः सुखश्रेणिकारणं सरसि स्फुटम् ॥३१७॥ अथवा-साक्षाभिशामणिश्रेणिः समकालमिवोदिता। द्रष्टुं तद्वन्दनां यत्र स्तम्भश्रेणिस्तदा बभौ॥ यत्र चन्द्रोदयः साक्षाचन्द्रोदय इव व्यभात् । अभितो मोक्तिकस्रग्भिस्तारकाभिविराजितः।३१९ आस्थानवेदिकास्तम्भपुत्रिका देवता इव । यत्र वीजयितुं सूरि स्थिता इव सुचामरैः ॥३२०॥ ३१२-यत्र वन्दनोत्सवमण्डपे मेरुः सूरी श्रीविजयदेवमूरि-श्रीविजयसिंहसूरी कर्मतापन्नौ प्रणन्तु किमायात इव आ बभौ शुशुभे । किं कृत्वा ? क्वापि कस्मिन्नपि स्थले पीतवासः प्रशस्यश्रीमिषमासाद्य । ३१३-यत्र मण्डपे कापि कुत्रचित्स्थले असिताम्बरं कालं वस्त्रं इदं नभ एव आकाशमिव अबाभात् अतिशयेन अदीप्यत । अत्र एवेत्यव्ययमिवार्थे । कथं भूतं कालं वस्त्रं श्वेतपीताम्बरज्योतिः सूर्यचन्द्रोदितोदयं श्वेतपीताम्बरयोर्धवलपिङ्गलचेलयोयोतिः कान्तिस्तदेव सूर्यचन्द्रयोरुदित उदयो यस्मिस्तत्तथा । कथं भूतं नभः ? श्वेतपीताम्बर योर्धवलपिङ्गलचेलयोयोतिः कान्तिर्ययोस्ती श्वेतपीताम्बरज्यौतिषौ । एवं विधौ यो सूर्य चन्द्रौ तयोः उदित उदयो यस्मिस्तत्तथा । श्वेतपीताम्बरज्योतिः प्रोदितादित्यचन्द्रमः इति पाठान्तरम् । तत्रायमर्थ:-किं भूतं ? असिताम्बरं श्वेतपीताम्बरज्योतिरेव । प्रोदितौ आदित्यचन्द्रमसौ यस्मिंस्तत्तथा । यस्मिन् श्यामवस्त्र पूर्वापरनिबद्धश्वेतपीताम्बरज्योतिरेव प्रोदितादित्यचन्द्रमसौ इव शोभते । द्वितीयपक्षे नभो विशेषणे श्वेतपीताम्बरज्योतिषौ प्रोदितौ आदित्य चन्द्रमसौ यस्मिस्तत्तथा । कवयो हि सूर्य श्वेतवर्ण वर्णयन्ति, चन्द्रं च पीतवर्णमिति । ३१४-लक्ष्मीपुष्पं पनरागमणिः । ३१५-कथंभूतानि रक्तानि वस्त्राणि उत्प्रेक्ष्यन्ते-हि निश्चितं गुरौ श्रीविजयसिंहसूरौ नृमनांसि रक्तानि कर्तु हीङ्गुलवृन्दानीव । इवोऽत्र मिन्नक्रमे । ३१६-अप्रेतनेनान्वयः। यत्र मण्डपे स्तम्भश्रेणिय॑राजत | कस्मिन् केव-सरसि उन्नालपुण्डरीकालिरिव । कथंभूता स्तम्भश्रेणिः उन्नालपुण्डरीकालिश्च-स्फुटं सुखश्रेणिकारणम् ।

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140