Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 76
________________ सर्गः] विजयदेवसूरि-माहात्म्यम् अवस्थानं न साधूनामेकत्र किल युज्यते । अतोऽतोऽथ प्रतिष्ठेय भवदाज्ञा भवेद्यदि ॥२९६॥ श्रुत्वेति वचनं सुरिमरूपितमनिन्दितम् । संगृह्य चरणौ मूर्दा संस्पृश्येति च सोऽवदत् ॥२९७॥ विजयसिंहसूरीन्द्रवन्दनकमहोत्सवम् । स्वयं कुरु गुरुश्रेयः श्रेयांस करवै च तम् ॥२९८॥ इत्युक्तो जयमल्लेन स्वमनोरथसिद्धये । भवत्वेवं महाभाग मूरिराह प्रसन्नहृद् ॥ २९९ ॥ ततः श्रीजयमल्लोऽथ श्रावकान् देशदेशतः । श्रीमच्छिवपुरीवासितेजपालादिकान् घनान् ।३००। विजयसिंहसूर्यहिवन्दनोत्सव उत्तमः । भवितात्राऽतः समायान्तु मयि भूत्वा कृपापराः॥३०१॥ ततो द्रव्यार्थिनः केऽपि केऽपि धर्मव्यथार्थिनः। केऽपि कौतुकिनो दक्षाः केऽपि तद्वन्दनोत्सुकाः॥ अश्वारोहा रथारोहा ओष्ट्रारोहाश्व केचन । पदातिका अनेके च राजान इव राजिताः॥३०॥ सासिनीकाः सपत्नीका वरस्त्रीकाः समातरः । महाजनाः समाजग्मुर्बहिरन्तश्च चारिणः॥३०४॥ -त्रिभिर्विशेषकम् । सौवर्णानि सुवर्णानि काय आभरणानि च । देवानामिव देवीनामिव पुंसां च योषिताम् ।३०५॥ सुवर्णमिव सत्पास्नं स्वणं चात्यन्तमोहकम् । तदेत्याहुर्जना वीक्ष्य सुवर्णगिरिरेषकः॥३०६॥युग्मम् यत्रानेकगवादीनां भूरिर्मारिरभूत्पुरा । अपूर्वा न कदा पूर्व साऽभूच्छ्रीगुरुतेजसा ॥३०७॥ सुवर्णगिरिरित्याख्या यथार्थाद्याभवच्छुभा । इति ब्रुवन्ति सल्लोका यद्यथादृष्टसूचकाः ॥१०॥ अथ श्रीजयमल्लाख्यः सन्मण्डपममण्डयत् । पारदेशिकवस्त्राणां वन्दनोत्सवहेतवे ॥ ३०९ ॥ अथ वन्दनोत्सवमण्डपवर्णनम्श्रीकैलासशिलातुल्याश्चञ्चुराः शुचयः सिचः । व्यभुध्वन्तिहृतो यत्र मध्याह्नार्कप्रभा इव ।३१०॥ २९६-अतः अस्मात्कारणात् । अतः श्रीसुवर्णगिरिनगरात् । ३०४-धर्माय धर्मनिगिन्तं व्ययमर्थयंतीत्येवं शीला: धर्मव्ययार्थिनः । धर्मनिमित्तं व्ययकर्तार इत्यर्थः। तयोः श्रीविजयदेवसूरि-श्रीविजयसिंहसूयॉर्वन्दना तस्यां उत्सुकास्तद्वन्दनोत्सुकाः। सह असिनीभिः अन्तःपुरचारिणीभिर्ये ते सासिनीकाः । 'असिनी स्यादवृद्धा या प्रैष्यान्त:पुरचारिणीत्यमरः । सह पत्नीभिः परिणीतस्त्रीभिर्वर्तन्ते सपत्नीकाः । ३०६-पुंसां समूहः पौंस्नं । स्त्रीणां समूह बैणं । स्त्रीपुंसाभ्यां नस्नो भवनादिति समूहेऽर्थे नस्नञ्चप्रत्यययोः साधू । एष एव एषकः । सर्वशब्देभ्यः स्वार्थे कन्निति कन् । सुव. गिरिभैरुस्स इव । सुवर्णगिरिमरुपर्वतोपम इत्यर्थः । ३०८-यत्रेति व्याख्याः-सल्लोका इति ब्रुवन्ति । इतीति किम् ? सुवर्णगिरिरित्याख्याऽद्य यथार्थाऽभवत् । इतीति किम् ? यत्र सुवर्णगिरौ अनेकगवादीनां भूरिसरिः पुराऽभूत् । सा न कदा पूर्व श्रीगुरुतेजसा अपूर्वा मारिरभूत् ।

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140