Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 74
________________ सर्गः । विजयदेवसूरि-माहात्म्यम् आदरं परमं कृत्वा सह लात्वा च सद्गुरुम् । सम्पवृन्दमिवानन्दं धृत्वा चित्ते च सोऽचलत् ।। अथ प्रभाते संजाते दिवारत्ने प्रभावति । तेजपालो नृणां रत्नं सरिरत्नं न्यवेशयत् ॥ २६३ ॥ श्रीमच्छिवपुरीमध्ये सुखाश्रय उपाश्रये । दत्वा रूप्याणि लोकेभ्यः कृत्वा च प्रवरोत्सवम् ॥ जायमानैः सदा धर्मैः क्रियमाणैः स्वतः शुभैः। कार्यमाणैश्च लोकेभ्यो नव्यैर्नव्यैर्दिने दिने ।२६५। श्रीसूरीन्द्रश्चतुर्मासों समामोत्सुकृतोत्सवाम् । न च श्रीतेजपालस्य जिनधर्ममनोरथान्।२६६युग्मम् चतुर्मासी समाप्यैवं प्राचलत्माचलदलः। विजयदेवसूरीन्द्रः प्रमत्तो न यतो यतिः ॥ २६७॥ श्रीसुवर्णगिरिद्रङ्गात् प्रैष्यं प्रेष्य समाह्वयत् । जयमल्लस्तरोमल्लः श्रीसुवर्णगिरिप्रभुः ॥२६८॥ उपस्वर्णगिरिग्रामे श्रीसूरिः समवासरत् । लोकवार्ता मिति श्रुत्वा जयमल्लोऽभ्यसंघयत् ॥२६९॥ अरसद् रसिकः सूरिपदाब्जस्पर्शसद्सम् । मुखेनाऽलीव सन्मूर्धा जयमल्लोऽग्रसंघयुक् ॥२७०॥ हृद्यानन्यानवद्येन विधिनैवाभिवन्द्य च । व्यययित्वा च सल्लोके सह लात्वा च सद्गुरुम् ।२७१। श्रीसुवर्णगिरिद्रङ्गे सरङ्गे सदुपाश्रये । समानीयाऽसयत् सिंहासने भूपमिवोत्तमम् ॥ २७२ ॥ ततः श्रुत्वोपदेशं च जयमल्लो जगजयी । महाजनकरे प्रादात् रूपकाणि महामनाः ॥२७३॥ -त्रिभिविशेषकम् । अथान्यदाच सूरीन्द्र जयमल्लो न्यवेदयत् । प्रशस्यदिवसं पश्य प्रतिष्ठायोग्यमहंतः॥२७४॥ ततः सूरीश्वरोऽपश्यज्ज्येष्ठमासे शुभं दिनम् । प्रतिष्ठायोग्यमारोग्यकरं सौभाग्यकारकम् ॥२७॥ श्रावकं जयमल्लाख्यं सुवर्णगिरिनायकम् । सुवर्णगिरिसत्संघसमक्षं च न्यवेदयत् ॥२७६॥ ततः श्रीजयमल्लोऽपि देशदेशमहाजनान् । उपरिष्ठात्पतिष्ठायाः प्रैष्यान प्रेष्य समाह्वयत् ॥२७७॥ आजग्मुस्तत्क्षणात्तेऽपि प्रतिष्ठां द्रष्टुमुद्यताः। वन्दितुं च तदा सूरिद्वयं पुण्याभिलाषिणः ॥२७८॥ (-द्वयं लाभद्वयस्पृहा -इति वा पाठः ) २६७-प्रकर्षेण अबलत् अविनश्यत् बकं मनोबलादित्रिकं यस्य प्राचलदलः । २६९-अभ्यसङ्घयत्-सङ्घन साधुसाध्वीश्रावक श्राविकालक्षणेन अभिमुखमगच्छन् इत्यर्थः। संघन अभियाति अभिसंघयति । णाविष्टवत्प्रातिपदिकस्येति गौरूपं । ततोऽनद्यतने ला इति लङि लुङ् लङ् लक्ष्वडुदात्त इति अडागमे प्रथमपुरुषस्यैकवचने अभ्यसङ्घयत् । २७३-सल्लोके भव्यलोके व्यययित्वा वित्तोत्सर्ग कृत्वा प्रत्येकं पीरोजीनामकं नाण दत्वेत्यर्थः । व्ययण वित्तसमुत्सर्गे चुरादिरदन्तः परस्मैपदी । २७८-लाभद्वयस्पृहाः-एकः प्रतिष्ठादर्शनलक्षणो लाभः, द्वितीयश्च श्रीविजयदेवसरिश्रीविजयसिंहमूरिद्वयवन्दनलक्षणो लाभ इत्यर्थः । लाभयोयं लाभद्वयं तस्मिन् स्पृहा वाञ्छा येषां ते लाभवयस्पृहाः। ननु यत्र अल्पोऽपि लाभः स्यात्तत्रापि लाभाभिलाषिणा नरेण

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140