Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
श्रीवल्लभोपाध्यायविरचित
[नवमः तस्याः शरीरमेवेद्रौ हारमौक्तिकदम्भतः । सुराः स्तनसुरदूणां क्रीडन्तीवोपरिस्थिताः॥१२॥ तस्याः शरीरमेवेद्रौ हारमौक्तिकदभ्भतः । सुराः स्तनासनासीनाः सेवन्ते सेवका इव ॥१२२॥ सिद्धिर्मनोरथानां सागस्माकं भविता शुभा । अस्याः प्रभावतो दिव्यादिति निश्चित्य चेतसि ॥ तस्याः शरीरमेर्वद्रौ हारमौक्तिकदम्भतः । सुराः मूरिं नमामेत्यऽनया सह स्थिता इव ॥१२४॥ यत्सौवर्णाङ्गदम्भेन मेरुः सेवत एव ताम् । भवान्यदाता दाताहमिति चेतस इच्छया ॥१२॥ त्यक्त्वैकेन्द्रियतां पञ्चेन्द्रियतां चेल्लभेयहि । तदा दानं प्रदायाहं प्रभवाणि बहुमदः ॥१२६॥ विचिन्त्येति यदीयाङ्गीभूयमेरुगिरीश्वरः । निषेवत इवाजस्रं सा देवी दीव्यते न कैः ॥ युग्मम् कल्याणं नाम मे लोकाः आहुः सप्तसु धातुषु । शकुनादिषु कार्येषु मामकल्याणकं पुनः॥ अतः सार्थ हि कल्याणं दधै नामेति वाञ्छया । तत्सुवर्णोंगर्दभात्तां सुवर्ण श्रयतीव किम् ॥ यत्सेवां सर्वदां पूर्व सुवर्ण सर्वदा व्यधात् । सुवर्णमिति नामातो हेम्नस्तां स्तुत पण्डिता ! ॥ यस्याः स्तनद्वयं वीक्ष्य कविः काममदं सदा । कामकुम्भमिहामुश्चदिव ब्रह्मेति शङ्कते ॥ विधत्ते न कथं सा हि पश्यतामीहितं नृणाम् । कामदं हृदि या धत्ते कामकुम्भं स्तनद्वयम् ॥
हारादीनामेव प्रवरधारकलक्षणाः, तेषां सुखावहाः सुखकारिण्य इत्यर्थः । पुनः कथं भूताः ? अत एव उत्प्रेक्ष्यन्ते भूषाः भूषा इव । भुवश्च भूमयः, उषाश्च रात्रय इति द्वन्द्व भूषाः भूमिरात्रयस्ता इव । यथा भूमयो रात्रयश्च आधेयानां मनुष्यादीनां वराधाराणां च गृहादीनां शुभे सुखावहा भवन्ति तथा भूषा अपि स्वस्त्रसुन्दराकारशोभालक्षणानां आधेयानां वराधाराणां हारादिषु भूषाधारकानां च सुखावहा भवन्ति-इति भावः ।
१२५-एवेत्यव्ययमिवार्थे । मेरुर्यत्सौवर्णाङ्गदम्भेन यस्याः शासनदेव्याः सौवर्णाङ्गमेव सुवर्णमयशरीरमेव दम्भः कपटं तेन यत्सौवर्णाङ्गदेहेन करणभतेन तां शासनदेवतां सेवते एव श्रयते इवेत्यर्थः । कया अहं अदाता दाता भवामि इति चेतस इच्छया ।
१२९-युग्मम् । उक्तिलेशः-सुवर्ण तां शासनदेवता, तत्सुवर्णाङ्गदम्भात् तस्याः शासनदेव्याः सुवर्णाङ्गदम्भात् हेमवर्णमयशरीरमिषात् श्रयतीव सेवते इव । कया अतः कारणात् , हि निश्चितं सार्थ कल्याणं नाम दधै बिभराणि इति वाञ्छया, अतः कारणादिति । किं तदाहलोकाः सप्तसु धातुषु मे मम कल्याणं नाम आहुः कथयन्ति । पुनः शकुनादिषु कार्येषु अकल्याणं अकल्याणकारकं आहुः । अतः कारणादित्युक्ति लेशः ।
१३०-उक्तिलेशश्चास्य-भो पण्डिनास्तां शासनदेवता स्तुत । तामिति का ? यत्सेवा सुवर्ण हेम सर्वदा पूर्व व्यधात् । अतो हेनः सुवर्णमिति नाम अभवदिति शेषः । यस्याः शासनदेव्या: सेवा यत्सेवा, ता; कथंभूतां सर्वदा सर्वाभीष्टार्थदायिनामित्यर्थः ।

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140