Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 63
________________ श्रीषल्लभोपाध्यायविरचितं [नवमः प्रबोध्यैवं स्वसबुद्धया सावलीग्रामनायकम् । मारिन्यवारि सर्वारिहरा तेन चिरत्तिन ॥ षोडशस्य शतस्याऽस्मिन् सुभिक्षे सुखदायिनि । अधिके सप्तभिः शस्तश्रीसप्ततितमेऽन्दके ॥ माघमासस्य शुक्लस्य पक्षस्य सुदिने दिने । षष्ठीनाम्नि विधातेव भाग्यं लिखितुमादरात् ॥ शासनाधीश्वरी ध्यातुमथातिष्ठदधीश्वरः । गच्छभारधरः को मे भावी ज्ञातुमिति स्फुटम् ॥१०७॥ त्रिभिर्विशेषकम् । कृत्वा षष्ठाऽष्टमाऽचाम्लमभृत्यत्युत्कृष्टं तपः । ध्यायति स्म शुभं ध्यानं ध्यानकामना गुरुः।। विधिना ध्यायतो ध्यानं प्रासीदच्छासनेश्वरी । समागत्य गुरोरग्रे न्यषीदचोज्ज्वलद्युतिः ॥ अथ शासनदेवतावर्णनम्प्रत्यक्षा सुप्रसन्नाऽक्षा देवी विद्युदिवाऽभवत् । सुवर्णात्मा सुवर्णात्मा श्रीगुरोः सम्पदे मुदे ॥ क्षोभयन्तीव चेतांसि योगिनां भोगिनामपि । अनाढयानां सदाढ्यानां त्यक्तात्यक्ताऽस्थिरत्वतः ॥१११॥ १०४-तेन रत्नसिंहेन तदा श्रीविजवदेवसूरेः सावलीमामे निवसनकाले चिरात् प्रभूतं कालं यावत् मारियवारि न्यषेधीत्यर्थः । शेषं स्पष्टम् । ११०-प्रत्यक्षा कर्हि दृष्टात्मेतिवा पाठः । देवी शासनदेवता सूरिमन्त्राधिष्ठात्री श्रीगुरोः श्रीविजयदेवमरेः सम्पदे लक्ष्म्यै मुदे हर्षाय प्रत्यक्षा अभवत् । कथंभूता देवी ? सुप्रन्नाऽक्षा सुप्रसनानि विकाररहितत्वेन प्रसादवन्ति अक्षाणि इन्द्रियाणि यस्याः सा तथा। प्रत्यक्षा कर्हि दृष्टात्मेति पाठान्तरं तदायमर्थः-कथंभूता देवी कर्हि कास्मिन् अर्थात्समये दृष्टात्मा दृष्ट आत्मा देहो यस्याः सा तथा । शासनदेव्याः कस्मिन्नेव काले दर्शनात् न सर्वदा दर्शनात् । का इव ? विद्युदिव । कथंभूता विद्युत् ? क िदृष्टात्मा प्राग्वत् । विद्युदपि कदैव दृश्यते न सर्वदेति । कथंभूता देवी विद्युच्च, सुवर्णात्मा सुवर्णः पीतलक्षणवर्णयुक्त आत्मा देहो यस्याः सा सुवर्णात्मा पीतवर्णा इत्यर्थः । अत एव पुनः कथंभूता, सुवर्णात्मा सुवर्णमयदेहा इत्यर्थः । पीता हि विद्युल्लोकानां सम्पदे भवति । यत्प्राश्च:-" वाताय कपिला विद्युत् , आतपायाऽतिलोहिनी । पीता वर्षाय विज्ञेया, दुर्भिक्षाय सिता भवेत् " इति । एवं शासनदेव्यपि पीतवर्णैव गच्छाभ्युदयाय श्रियै च भवति नापरवर्णेति विद्युता साम्यं दर्शितम् । एवं विशेषणद्वयमपि देवीविद्युतोः समानमेव । ६११-किं कुर्वन्ती उत्प्रेक्ष्यते-योगिनां भोगिनामपि चेतांसि क्षोभयन्तीव क्षोभ प्रापयन्तीव । कथंभूतानां योगिनां ? अनाढ्यानां धनरहितानां पूर्व गृहस्थत्वे धनभोगसद्भावेऽपि सर्वथा परित्यक्तधनभोगानामित्यर्थः । कथंभूतानां भोगिनां ? सदान्यानां सर्वदा धनभोगसंयुक्तानामित्यर्थः । ननु कथं त्यक्तधनभोगानां योगिनां विद्यमानाऽपरित्यक्तधनभोगानां योगिनां घेत:

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140