________________
श्रीषल्लभोपाध्यायविरचितं
[नवमः प्रबोध्यैवं स्वसबुद्धया सावलीग्रामनायकम् । मारिन्यवारि सर्वारिहरा तेन चिरत्तिन ॥ षोडशस्य शतस्याऽस्मिन् सुभिक्षे सुखदायिनि । अधिके सप्तभिः शस्तश्रीसप्ततितमेऽन्दके ॥ माघमासस्य शुक्लस्य पक्षस्य सुदिने दिने । षष्ठीनाम्नि विधातेव भाग्यं लिखितुमादरात् ॥ शासनाधीश्वरी ध्यातुमथातिष्ठदधीश्वरः ।
गच्छभारधरः को मे भावी ज्ञातुमिति स्फुटम् ॥१०७॥ त्रिभिर्विशेषकम् । कृत्वा षष्ठाऽष्टमाऽचाम्लमभृत्यत्युत्कृष्टं तपः । ध्यायति स्म शुभं ध्यानं ध्यानकामना गुरुः।। विधिना ध्यायतो ध्यानं प्रासीदच्छासनेश्वरी । समागत्य गुरोरग्रे न्यषीदचोज्ज्वलद्युतिः ॥ अथ शासनदेवतावर्णनम्प्रत्यक्षा सुप्रसन्नाऽक्षा देवी विद्युदिवाऽभवत् । सुवर्णात्मा सुवर्णात्मा श्रीगुरोः सम्पदे मुदे ॥ क्षोभयन्तीव चेतांसि योगिनां भोगिनामपि ।
अनाढयानां सदाढ्यानां त्यक्तात्यक्ताऽस्थिरत्वतः ॥१११॥ १०४-तेन रत्नसिंहेन तदा श्रीविजवदेवसूरेः सावलीमामे निवसनकाले चिरात् प्रभूतं कालं यावत् मारियवारि न्यषेधीत्यर्थः । शेषं स्पष्टम् ।
११०-प्रत्यक्षा कर्हि दृष्टात्मेतिवा पाठः । देवी शासनदेवता सूरिमन्त्राधिष्ठात्री श्रीगुरोः श्रीविजयदेवमरेः सम्पदे लक्ष्म्यै मुदे हर्षाय प्रत्यक्षा अभवत् । कथंभूता देवी ? सुप्रन्नाऽक्षा सुप्रसनानि विकाररहितत्वेन प्रसादवन्ति अक्षाणि इन्द्रियाणि यस्याः सा तथा। प्रत्यक्षा कर्हि दृष्टात्मेति पाठान्तरं तदायमर्थः-कथंभूता देवी कर्हि कास्मिन् अर्थात्समये दृष्टात्मा दृष्ट आत्मा देहो यस्याः सा तथा । शासनदेव्याः कस्मिन्नेव काले दर्शनात् न सर्वदा दर्शनात् । का इव ? विद्युदिव । कथंभूता विद्युत् ? क िदृष्टात्मा प्राग्वत् । विद्युदपि कदैव दृश्यते न सर्वदेति । कथंभूता देवी विद्युच्च, सुवर्णात्मा सुवर्णः पीतलक्षणवर्णयुक्त आत्मा देहो यस्याः सा सुवर्णात्मा पीतवर्णा इत्यर्थः । अत एव पुनः कथंभूता, सुवर्णात्मा सुवर्णमयदेहा इत्यर्थः । पीता हि विद्युल्लोकानां सम्पदे भवति । यत्प्राश्च:-" वाताय कपिला विद्युत् , आतपायाऽतिलोहिनी । पीता वर्षाय विज्ञेया, दुर्भिक्षाय सिता भवेत् " इति । एवं शासनदेव्यपि पीतवर्णैव गच्छाभ्युदयाय श्रियै च भवति नापरवर्णेति विद्युता साम्यं दर्शितम् । एवं विशेषणद्वयमपि देवीविद्युतोः समानमेव ।
६११-किं कुर्वन्ती उत्प्रेक्ष्यते-योगिनां भोगिनामपि चेतांसि क्षोभयन्तीव क्षोभ प्रापयन्तीव । कथंभूतानां योगिनां ? अनाढ्यानां धनरहितानां पूर्व गृहस्थत्वे धनभोगसद्भावेऽपि सर्वथा परित्यक्तधनभोगानामित्यर्थः । कथंभूतानां भोगिनां ? सदान्यानां सर्वदा धनभोगसंयुक्तानामित्यर्थः । ननु कथं त्यक्तधनभोगानां योगिनां विद्यमानाऽपरित्यक्तधनभोगानां योगिनां घेत: