________________
सर्गः]
विमयदेवसूरि-माहात्म्यम् जीवहिंसा प्रभूतात्र जायते पापभूपतः । त्वदागमनतस्तस्या निवृत्तिर्भविता चिरम् ॥८६॥ अस्मिंश्च कार्य आलस्यमपास्यागच्छ सद्गुरो! । भवन्ति साधवः सर्व धर्मलाभार्थिनो यतः ॥ स्वस्ति श्रीजिनमानस्य श्रीमदीडरसत्पुरे । सहप्रमुखान् श्राद्धान् रत्नसिह इति स्तुते ॥ इतीति किं तदाहधन्या यूयं यतो नित्यं विजयदेवसद्गुरोः । वन्दध्वे चरणाम्भोज लभध्वे च फलं श्रियः । वारंवारमिति स्तुत्वा तांश्च विज्ञपयत्यथ । अद्य सद्यः प्रसधात्र मुञ्चेयुः श्रीगुरुं गुरुम् ॥१०॥ अत्रापि भविता लाभो नव्यो नव्यो दिने दिने । प्रसादाद् भवतामेव विचारो नात्र कश्चन ॥ विलिरव्य पत्रयोर्द्वन्द्वमद्वन्द्वन स्वचेतसा (-मद्वन्द्वेन स्वपाणिनेति वा पाठः)।
रत्नसिंहस्तदा प्रादात् प्रैष्यहस्ते प्रशस्तधीः ॥ ९२ ॥ तदानी पोचलत्पैष्यः प्रचलंश्चापदीडरम् । गुरोरन्तिकमागच्छत्मादात्पत्रे च सद्गुरोः॥९॥ प्रापयच्छीगुरुः पत्रं द्वितीयं सहजूकरे । उभाववाचयेतां तौ ते पत्रे पीतचेतसौ ॥९॥ सहजूः प्रमुखाः सर्वे श्राद्धा ईडरवासिनः । विजयदेवसूरीन्द्रमिति व्यज्ञपयंस्तदा ॥९॥ इतः प्रचल सूरीन्द्र गत्वा तं तत्र तोषय । धर्मजीवदयादानब्रह्मचर्यादि सम्भवैः ॥१६॥ श्रावकं पोषयित्वा तं कृत्वा ध्यान हिताय च । अत्रास्मांस्तोषयागत्य वर्याचार्यपदोत्सवात् ॥ इत्युक्तः सहजमुख्यैः श्रावकैरादरात्ततः । विजयदेवसूरीन्द्रः प्राचालीत्परिवारयुक् ॥९॥ विहरन्स क्रमात्माप साबलीग्राममुत्सवम् । कृत्वा श्रीरत्नसिंहोऽपि तमुपाश्रयमानयत् ॥१९॥ धर्मोपदेशमाकण्यं दृष्ट्वा चोप्रक्रियापरम् । श्रीगुरुं स्वशरीरे स मापानन्दमपापधीः ॥१०॥ यावच्छ्रीमद्गुरोरत्र स्थितिः प्रीतिविधायिनी । तावदत्रापवित्रा नो भवित्री मारिरीतिकृत्॥ वितथा वितथामे मा वाचो वाचंयमाधिपे । निवसत्यवनीनाथ रत्नसिंहोऽभ्यधादिति ॥१०२॥ सर्वथा नियंथा लोका अभया अभया इव । भवितारोऽस्य माहात्म्यानिधनाः सधना अपि ।।
८८-इति स्तुत इति स्तौति । ८९-धन्येति सुगमम् ।
१०२-युग्मम् । हे अवनीनाथ ! भूपाल! वाचंयमाधिपे श्रीविजयदेवसरौ निवसति सति स्थितिकुर्वति सति इमाः पूर्वोक्ता:-मारिनों भवित्रीत्यादि लक्षणानि, वेद्यमानाश्च सर्वथा निर्व्यथा लोका इत्यादिलक्षणा वाचो वाण्यः वितथा असत्याः मा वितथाः मा कार्षीः इति रत्नसिंहोड भ्यधात् अकथयत् । वितथा इति तनुविस्तारे इत्यस्य विपूर्वकस्य करणार्थस्य माङिलुङिति लुकि लिलुङि इति चिलप्रत्ययः, च्ले सिच् इति सिच् प्रत्यये तनादिभ्यस्तथा सोरिति वैकल्पिकसिचो लोपे अनुदात्तोपदेशेति अनुनासिकलोपे न माङ् योगे इत्यनेन अडागमस्य लोपे च मध्यम. पुरुषस्यैकवचनम् ।
१०३-भवितारो भविष्यन्तीत्यर्थः ।