Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 70
________________ सर्गः] विजयदेषसूरि-माहात्म्यम् कस्माञ्चिदपि श्रुत्वेति समवसरणं भुवि । साक्षात्सुचतुरं सारं रचितं चतुरैर्नरः ॥१८१॥ विलोकितुमिवायातस्तं नन्तुं चैव तज्जिनान् । विमानोऽयमिति प्राहुर्य बुधाः मुरभासुरः ॥ उत्सवात्कृत्शृङ्गाराः स्त्रियोऽथ सहगृहे । अजेगीयन्त गेयानि सर्वदोपाश्रयेऽपि च ॥१८॥ वादित्राणि पवित्राणि बहुजातीन्यहर्दिवम् । सुस्वरस्वर्गभेत्तृणि वादका अभ्यवादयन् ॥१८४॥ अवदन् बन्दिनो लोका यशांसि वदनाम्बुजात् । गुरूणां श्रावकाणां च द्वारे द्वारे गृहे गृहे ।। पुण्याहानि किलाहानि पुण्यरात्रीश्च रात्रयः । अभवन्नत्र सर्वत्र नागरा अब्रुवन्निति ॥१८६॥ एवमाविरभूद्रङ्गे प्रतिमन्दिरमुत्सवः । उत्सवः पुण्यवनणां भवेल्लोकोत्सवाय यत् ॥१८७॥ श्रीयशीतितमे वर्षे षोडशस्य शतस्य हि । वैशाखशुक्लषष्ठेऽहि प्रातर्भास्वति भास्वति ॥ विजयदेवसूरीन्द्रो मण्डपं तं समासदत् । सोत्सवः साधुभिर्युक्तः कनकविजयादिभिः॥१८९॥ श्रावकैः श्राविकाभिश्च नागरैश्च जनैर्युतः। वीक्ष्यमाणो गुणैर्गीतैर्गीयमानः पदे पदे ॥१९०॥ त्रिभिर्विशेषकम । ज्योक्कारमहतां नन्दौ कारयित्वा यथाविधि । कनकविजयाख्यस्य मूरिमन्त्रं श्रुतौ ददौ ॥ दत्वा सूरिपदं दत्तानन्दवृन्दो जगद्गुरुः । विजयसिंह आचार्य इति नामाभ्यधान्मुखात् ॥ (-इत्याख्यत् स्वमुखात् सुखात् -इति वा पाठः) श्रीकीर्तिविजयाख्याय लावण्यविजयाय च । उपाध्यायपदं दत्वा सूरिरेवमभाषत ॥१९३॥ श्रीकीर्तिविजयाख्योऽयं लावण्यविजयो लघुः ( -लावण्यविजयः पुनः -इति वा पाठः) ___उपाध्यायाविमौ गच्छप्रभावकतमौ समौ ॥१९४॥ युग्मम् । ततः श्रीसहजूनामा श्रावकः श्रद्धयाऽशृणोत् । विजयसिंहमूरीन्द्रप्रोक्तां धर्माशिषं सुखाम् ॥ सुखस्य प्राप्तये भूयात् सम्पदेऽभ्युदयाय च । जयाय च सदारीणां पञ्चैते परमेष्ठिनः ॥१९६॥ श्रुत्वेत्युत्थाय चोत्साहात् तान्नत्वा सहजस्ततः । श्रीसङ्घानां समस्तानां करे रूप्याण्यदान्मुदा॥ १८१-विलोकयितुं तमिति नन्दि । विलोकयितुं युग्भमस्य व्याख्या-बुधाः पण्डिता यं मण्डपं इति प्राहुः । इतीति किं ? चः पुनरर्थे । तजिनान् तस्मिनन्दौ जिना अर्थाजिनप्रतिमास्तजिनारतान् नन्तुं वन्दितु आयात इव अयं विमानो व्योमयानं न तु मण्डप इत्यर्थः । 'व्यो. मयानं विमानोऽस्त्री' इत्यमरवचनात् । विमानशब्दस्य पुनपुंसकलिङ्गत्वादत्र पुल्लिङ्गनिर्देशः । कथंभूतो विमान: ? सुरभासुरः सुरैर्देवैर्भासुरः सुरभासुरः । मण्डपे हि देवानां चित्राणि स्युरतो विमानस्यापि सुरसहितत्वं दर्शितम् । किं कृत्वा विमान आयात इत्याह-चतुरैर्नरैर्भुवि साक्षात् सारं समवसरणं रचितं इति कस्माश्चिदपि श्रुत्वा । समवसरणं हि सुरा एव रचयन्ति न नरा इति सुराणामाश्चर्यमतः सुररहितविमानागमनं समुचितं । कथंभूनं समवसरणं सुचतुरं शोभनाश्वत्वारोऽर्थात् जिना यस्मिंस्तत् सुचतुरं । अचतुरविचतुरसुचतुरेति अच प्रत्ययनिपातात् सिद्धिः।

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140