________________
सर्गः]
विजयदेषसूरि-माहात्म्यम् कस्माञ्चिदपि श्रुत्वेति समवसरणं भुवि । साक्षात्सुचतुरं सारं रचितं चतुरैर्नरः ॥१८१॥ विलोकितुमिवायातस्तं नन्तुं चैव तज्जिनान् । विमानोऽयमिति प्राहुर्य बुधाः मुरभासुरः ॥ उत्सवात्कृत्शृङ्गाराः स्त्रियोऽथ सहगृहे । अजेगीयन्त गेयानि सर्वदोपाश्रयेऽपि च ॥१८॥ वादित्राणि पवित्राणि बहुजातीन्यहर्दिवम् । सुस्वरस्वर्गभेत्तृणि वादका अभ्यवादयन् ॥१८४॥ अवदन् बन्दिनो लोका यशांसि वदनाम्बुजात् । गुरूणां श्रावकाणां च द्वारे द्वारे गृहे गृहे ।। पुण्याहानि किलाहानि पुण्यरात्रीश्च रात्रयः । अभवन्नत्र सर्वत्र नागरा अब्रुवन्निति ॥१८६॥ एवमाविरभूद्रङ्गे प्रतिमन्दिरमुत्सवः । उत्सवः पुण्यवनणां भवेल्लोकोत्सवाय यत् ॥१८७॥ श्रीयशीतितमे वर्षे षोडशस्य शतस्य हि । वैशाखशुक्लषष्ठेऽहि प्रातर्भास्वति भास्वति ॥ विजयदेवसूरीन्द्रो मण्डपं तं समासदत् । सोत्सवः साधुभिर्युक्तः कनकविजयादिभिः॥१८९॥ श्रावकैः श्राविकाभिश्च नागरैश्च जनैर्युतः। वीक्ष्यमाणो गुणैर्गीतैर्गीयमानः पदे पदे ॥१९०॥
त्रिभिर्विशेषकम । ज्योक्कारमहतां नन्दौ कारयित्वा यथाविधि । कनकविजयाख्यस्य मूरिमन्त्रं श्रुतौ ददौ ॥ दत्वा सूरिपदं दत्तानन्दवृन्दो जगद्गुरुः । विजयसिंह आचार्य इति नामाभ्यधान्मुखात् ॥
(-इत्याख्यत् स्वमुखात् सुखात् -इति वा पाठः) श्रीकीर्तिविजयाख्याय लावण्यविजयाय च । उपाध्यायपदं दत्वा सूरिरेवमभाषत ॥१९३॥ श्रीकीर्तिविजयाख्योऽयं लावण्यविजयो लघुः ( -लावण्यविजयः पुनः -इति वा पाठः)
___उपाध्यायाविमौ गच्छप्रभावकतमौ समौ ॥१९४॥ युग्मम् । ततः श्रीसहजूनामा श्रावकः श्रद्धयाऽशृणोत् । विजयसिंहमूरीन्द्रप्रोक्तां धर्माशिषं सुखाम् ॥ सुखस्य प्राप्तये भूयात् सम्पदेऽभ्युदयाय च । जयाय च सदारीणां पञ्चैते परमेष्ठिनः ॥१९६॥ श्रुत्वेत्युत्थाय चोत्साहात् तान्नत्वा सहजस्ततः । श्रीसङ्घानां समस्तानां करे रूप्याण्यदान्मुदा॥
१८१-विलोकयितुं तमिति नन्दि । विलोकयितुं युग्भमस्य व्याख्या-बुधाः पण्डिता यं मण्डपं इति प्राहुः । इतीति किं ? चः पुनरर्थे । तजिनान् तस्मिनन्दौ जिना अर्थाजिनप्रतिमास्तजिनारतान् नन्तुं वन्दितु आयात इव अयं विमानो व्योमयानं न तु मण्डप इत्यर्थः । 'व्यो. मयानं विमानोऽस्त्री' इत्यमरवचनात् । विमानशब्दस्य पुनपुंसकलिङ्गत्वादत्र पुल्लिङ्गनिर्देशः । कथंभूतो विमान: ? सुरभासुरः सुरैर्देवैर्भासुरः सुरभासुरः । मण्डपे हि देवानां चित्राणि स्युरतो विमानस्यापि सुरसहितत्वं दर्शितम् । किं कृत्वा विमान आयात इत्याह-चतुरैर्नरैर्भुवि साक्षात् सारं समवसरणं रचितं इति कस्माश्चिदपि श्रुत्वा । समवसरणं हि सुरा एव रचयन्ति न नरा इति सुराणामाश्चर्यमतः सुररहितविमानागमनं समुचितं । कथंभूनं समवसरणं सुचतुरं शोभनाश्वत्वारोऽर्थात् जिना यस्मिंस्तत् सुचतुरं । अचतुरविचतुरसुचतुरेति अच प्रत्ययनिपातात् सिद्धिः।