Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 71
________________ श्रीवल्लभोपाध्यायविरचितं [नवमः आहृय सर्वदेशानां श्रीसंघान सोऽभ्यभोजयत् । सत्कारं चोत्तरं कृत्वा यथास्थानमचालयत् ॥ कनकविजयाख्यस्य जातः सूरिपदोत्सवः। जाते तस्मिन्ननेकेषां पुंसामासीन्महोत्सवः॥१९९॥ विजयदेवसूरीन्द्रः कुर्वन्नवं महोत्सवान् । विजयसिंहसूरीन्द्रयुतो जयतु भूतले ॥२००॥ गुरुशिष्यावुभौ सूरी समासीनौ विराजताम् । श्रीतपागच्छपुंरूपनेत्रे इव विकस्वरे । (-नेत्रे इव मनोहरे -इति वा पाठः)॥२०१॥ गुरुशिष्यावुभौ सूरी समासीनौ विराजताम् । श्रीतपागच्छपुंरूप कर्णाविव विभूषकौ ॥२०२॥ गुरुशिष्यावुभौ मूरी समासीनौ विराजताम् । श्रीतपागच्छपुंरूपहस्ताविव तरस्विनौ॥२०॥ वाञ्छितानां सुकार्याणां कारको स्वेच्छयाद्भुतम् । दानानां दायको वैरिवाराणां च निवारकौ ॥२०४॥ युग्मम् । एकस्तीर्थकरो यत्र द्वितीयस्तत्र नो भवेत् । एतौ प्रीतौ मिथःसूरी भात इत्यद्भुतं जने ॥ एकस्मिन्नेव साम्राज्ये सम्राडप्येक एव हि । पुण्याधिकमिदं यत्तु सम्राजौ राजतो ह्यमू॥ आसीनौ सम्मुखीनौ तौ सूर्याचन्द्रमसाविव । भातः प्राच्या प्रतीच्यां च पातर्नेत्रसुखावहौ। (-प्रभाते पूर्णिमास्थितौ -इति वा पाठः) एवं तौ विहरन्तौ द्वौ गुरुशिष्यौ गणाधिपौ । पुष्पदन्ताविवोद्यातौ दीप्येते इव भूतले ॥ -इति श्रीविजयदेवमूरिशिष्यश्रीविजयसिंहमूरिवर्णनम् । अथास्मिन् समये क्षेत्रे भारते मरुमण्डले । श्रीमद् योधपुरं नाम पुरं पुरपुरोत्तमम् ॥२०९॥ यत्र वाप्यो घनाः कूपाः सरसानि सरांस्यपि। मनोऽभिरामा आरामाः सौवर्गेभ्योऽग्रिमाःसुखाः। महौजास्तत्र राजास्ति गजसिंहाभिधः सुधीः । पराक्रमपराभूतपरचक्रपराक्रमः ॥२१॥ सिलेमसाहिरानन्दात् पातिसाहिः प्रसन्नहक् । महाराजा अयं हीति यं प्राहोत्तमराजसु ॥२१२॥ श्रीमानमरसिंहाख्यस्तस्य पुत्रो महर्धिकः । जयन्त इव शक्रस्य युवराजो विराजति ॥२१३॥ तत्र जेसाभिधः श्रेष्ठी श्रेष्ठोऽन्यव्यवहारिणाम् । राजमान्यो जगन्मान्यो न्यवसत्परमर्दिकः ॥ तस्य पुत्रास्त्रयोऽभूवंस्त्रयो वेदा इवोत्तमाः । सूरसिंहमहीपालमहामात्रा महौजसः ॥२१॥ तेष्वाद्यो जसवन्ताख्यो जयराजो द्वितीयकः । तृतीयो जयमल्लाख्यो नामतोऽमी यथाक्रमम् ॥ आदिमौ त्रिषु नाऽभूतां पुरुषायुषजीविनौ । आयुषः क्षयतोऽभूतां स्वर्गिणी स्वर्गविष्टपे ॥ २०१-समं सदृशं 'बराबर' इति भाषा । आसीनौ उपविष्टौ समासीनौ । २१०-सुखानीव आचरन्ति सुखंति । सर्वप्रातिपदिकेभ्यः क्विा वाचारे-इति आचारे ऽर्थे क्विपिप्रत्यये सर्वस्य क्विपो लोपे पचाचि सुखन्तीति सुखाः सुखानीव आचरन्ति । २१७-पुरुषस्यायुः पुरुषायुषं अचतुरेवि अजंतो निपातः । पुरुषायुषं जीवत इत्येवं शीली पुरुषायुषजीविनी।

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140