________________
भीषलभोपाध्यायविरचित
[नवमः सौम्याचन्द्रो नु सूर्यो नु प्रतापान्नु सरोरुहम् । सौरभ्यावदनं तस्या इति प्रज्ञाविराद्विदुः ॥
(सौरभ्यादागतौ तस्यास्तमितिज्ञाश्विराद्विदुः-इत्यपि पाठान्तरम् ) देवा देवगुरुयन्ति यां सदा स्वभावतः । दैत्या दैत्यगुरुयन्ति सा ददातु सदा मुदः ॥१४१॥ ईदृक् सा शासनधीशा तं तदेत्यवदन्मुदा । श्रीवल्लभ उपाध्याय उपश्लोकयति स्म याम् ॥ इतीति किं तदाहश्रीपूज्यराज कार्य ते मदाकारणकारणम् । प्रसद्य तद्वद त्वं मां करवाणि त्वदाज्ञया ॥१४॥ ध्यानं मूरिः परित्यज्य तामवोचद्विचारवित् ।
भूयांसः सन्ति मे शिष्याः अभिषिञ्चानि के प्रति ॥१४४॥ श्रीसूरिणेति विज्ञप्ता सूरिमन्त्रस्य देवता । क्षणमात्रं तदा तस्थौ ध्याननिश्चललोचना ॥१४॥ प्रणिधानेन साऽपश्यत् तपागच्छप्रकाशकम् । कनकविजयं शिष्यमुपाध्यायं जगज्जयम् ॥ यथा भ्रमराः कमलिनीभ्य उद्विमाः कमलिनीः परित्यज्य प्रोद्भताऽतिसुराभनवीनकुसुमगुच्छां छता सम्मुखं यान्ति तथा रमणीयरूपा अपि स्वकीयपरिणीतस्त्रीः परित्यज्य माः शासनदेवतामभिमुखं यान्तीति भावार्थः । अत्र तामिति पदस्य वल्लीत्युपमानं, मां इत्यस्यालिन इत्युपमान, स्त्रीरित्यस्य पणिनीरित्युपमानम् । स्वीरित्यत्र वाऽमशसोरिति वैकल्पिको न इयङ् ।
१४०-तस्याः शासनदेच्या आगती आगमने ज्ञा:-पण्डिताः तां-शासनदेवतां इति चिराद्विदुः ज्ञातवन्तः । इतीति किं ? त्रयोऽप्यत्र नु शब्दा अव्यया वितीर्थाः । सौम्याकि चन्द्रः! प्रतापाकि सूर्यः? सौरभ्यात्किं सरोरुहं-कमलमिति । सौरभ्याद्वदनं तस्या इति प्रज्ञाश्चिराद्विदुरिति पाठे-तस्याः शासनदेव्या वदनं प्रज्ञाः पण्डिता इति चिराहिदुः । शेषं सर्व प्राग्वत् ।
१४१-सा पूर्वोक्तप्रकारवर्णिता शासनदेवता सदा मुदो ददातु । सा का ? यां सदा स्वप्रभावत आत्मीयोत्कटस्वतः देवा देवगुरूयन्ति बृहस्पतिमिवाचरन्ति । यां दैत्या दैत्यगुरुवन्ति शुक्रमिवाचरन्ति । देवगुरूयन्ति दैत्यगुरूयन्ति-अत्रोभयत्र उपमानाहाचारे इति क्यचप्रत्ययः । अकृत्सार्वधातुकेति दीर्घश्च । सप्रतापः प्रभावश्च यत्तेजः कोशदण्डजमित्यमरः ।
१४२-द्वात्रिंशता श्लोकैरुपस्तौति-उपश्लोकयति । णाविष्टवत् प्रातिपदिकस्येति गौरूपं उपश्लोकयति स्म । द्वात्रिंशता श्लोकैरस्तौदित्यर्थः।।
१४४-अभिषिञ्चानि के स्वपदे न्यस्यानि स्थापयानीत्यर्थः । अभिषिञ्चानीति 'आशिषि लिक लोटौ' इत्याशिषि लोटि, मेनिरिति मेनि इत्यादेशे आडुत्तमस्य पिचेति आडागमे, उत्तमपुरुषकवचनम् ।
१४६-प्रणिधानेन समाधिना । प्राणिधानं प्रयत्ने स्यात्प्रवेशे च समाहिताविति-विक्षः।