________________
१३
सर्गः]
विजयदेषसरि-माहात्म्यम् भावितात्माथ देवीति सूरीन्द्र प्रत्यबोधयत् । कनकविजयः शिष्यो भविता ते गच्छनायकः ॥ अमूहक्षोऽपरो दक्षो न विपक्षापनायकः ।
स्थूललक्षो लसत्पक्षो गुणलक्षोऽक्षदर्शकः॥१४८॥ युग्मम् । विजयदेवसूरीन्द्रमित्यावेद्य न्यवर्तत । आशया सूरिराजस्य ततः शासनदेवता ॥१४९॥ उज्ज्वलान्माघमासस्य दिनाषष्ठादथाद्भतात् । दिने वैशाखमासस्य तृतीये मझुलोज्ज्वले।।१५०॥ शस्ते प्रभाते संजाते परदेशमहाजनाः । आगता वन्दितुं तत्र ज्योतीरूपं जगद्गुरुम् ॥१५१॥ रत्नसिंहादयोऽप्यन्ये साबलीग्रामवासिनः । विधायानेकधानेकान् ववन्दुस्तं महोत्सवात् ॥ रत्नसिंहस्तथान्येऽपि परदेशमहाजनाः । ददु रूप्याण्यनेकानि जातस्पर्दा बुधा इव ॥१५॥ सहजूः समयेऽथास्मिन् कृतपूर्वलसद्वचाः । सुश्रीडरपुराधातुममुश्चच्छ्रीगुरुं नरम् ॥१५४॥ ततः श्रीसहजूमैष्यः साबलीग्राममाययौ । ददौ च शिरसा नत्वा श्रीसूरेः करपङ्कजे ॥१५॥ पत्रं प्रवाच्य सूरीन्द्रः स्वकाकारणवेदकम् । रत्नसिंहाभिधं श्राद्धं तदा प्राज्ञापयन्मुदा ॥१५६॥ सोऽप्यवादीत्तदा मूरि तोषाय सहजूहृदः । गच्छ स्वच्छमते गच्छनाथ स्वहितमाचर ॥ पाचालीत्परमप्रीत्या महताडम्बरेण च । श्रीसूरिभूरिभिः श्राद्धैः साधुभिश्च सह श्रिया ॥ श्रुत्वाथ सहजूः मूरि सामायातं पुरान्तिके । श्रीसन्युतोऽगच्छत् सम्मुखीनो नृणामिनः ॥ अभिनम्य निशम्योपदेशं च श्रीगुरूदितम् । सहर्हषितः सूरि समानयदुपाश्रये ॥१६०॥ ददौ धर्माशिषं पूज्यः श्रीसंघाय विशेषतः । अभ्युत्तस्थौ ततः सहुः तस्मै रूप्याण्यदाच सः॥ क्षणं लब्धै कदेत्याह सहविनयाद्गुरुम् । श्रावकास्तव भूयांसः सन्त्यन्येऽपि महर्दिकाः ॥१२॥
१४७-भावितो वासितो मिश्रितोऽर्थात् ज्ञानेनात्मा चित्तं यस्याः सा भावितात्मा । ज्ञातगच्छभारसारसूरिमन्त्राधारश्रीकनकविजयोपाध्यायेत्यर्थः।अथेति ज्ञाताऽनन्तरम्। आत्मा चित्ते धृतौ यत्ने' इत्यनेकार्थः। स्थूललक्षो बहुप्रदः। यद् हैमः-स्थूललक्षदानशाण्डो बहुप्रदे' इति। अक्षद. र्शकः न्यायानां द्रष्टा, द्रष्टा तु व्यवहाराणां प्राविवाकोऽक्षदर्शक:' इति हैमः। 'विवादानुगतं पृष्ठा स सभ्यस्तत्प्रयत्नतः। विचारयति येनासौ प्राह विवाकस्ततः स्मृत'-इति कात्यायनः। लसन्तः पक्षाः सखायः सहाया वा यस्य स लसत्पक्षः । लसन् पक्षो बलं यस्येति वा लसत्पक्षः । यद्वा लसन्पक्षः साध्यं यस्य स तथा । अथवा अकारप्रश्लेषात अलसत्पक्ष:-न विद्यते लसन् पक्षो विरोधो यस्य सः अलसत्पक्षः। ' पक्षस्तु मासार्धे गृहसाध्ययोः। चुल्ली रन्ध्रे बले पावे सख्योकेशात्परश्चये । पिच्छे विरोधे देहाङ्गे सहाये राजकुजरे ' इति सर्वत्र हैमः ।
१५४-कथंभूतः सहजूः कृतं विहितं पूर्व प्रथमं सद्विलसद्वचः श्रीकनकविजयोपाध्यायस्य भाचार्यपददापनमहोत्सवविधानलक्षणं वचनं येन स कृतपूर्वलसद्वचाः।
१६१-स सहजू: श्रावक इति शेषः।